________________
तृतीयं परिशिष्टम्- टिप्पनानि अथ संग्रहनयं व्याचिख्यासुराह- संगहणं संगिण्हइ संगिझंते व तेण जं भेया । तो संगहो त्ति संगहियपिंडियत्थं वओ जस्स ॥२२०३॥ संग्रहणं सामान्यरूपतया सर्ववस्तूनामाक्रोडनं संग्रहः, अथवा सामान्यरूपतया सर्वं संगृह्णातीति संग्रहः । अथवा, यद् यस्मात् सर्वेऽपि भेदाः सामान्यरूपतया संगृह्यन्तेऽनेनेति संग्रहः । संगृहीतं च तत् पिण्डितं च संगृहीतपिण्डितं तदेवार्थोऽभिधेयं यस्य तत् संगृहीतपिण्डितार्थम्, एवंभूतं वचो वचनं यस्य संग्रहस्येति ॥२२०३॥” - विशेषाव० मलधारि०।
[पृ०६६९] “सदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥२२०७॥ यस्मात् ‘सत्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धिरनुप्रवर्तते प्रधावति । न हि तत् किमपि वस्त्वस्ति यत् ‘सत्' इत्युक्ते झगिति बुद्धौ न प्रतिभासते । ततस्तस्मात् सर्वं तन्मात्रमेव सत्तामात्रमेव, न तदर्थान्तरं किञ्चिदस्ति यद् विशेषतया कल्पेतेति ॥२२०७||
कुंभो भावाणन्नो जड़ तो भावो अहन्नहाऽभावो । एवं पडादओ वि हु भावाणन्न त्ति तम्मत्तं ॥२२०८॥ कुम्भो घटः स भावात् सत्तातोऽन्यः, अनन्यो वा ?। यद्यनन्योऽभिन्नः, तर्हि भावः सत्तामात्रमेवासौ। अहन्नह त्ति अथान्यथा, भावाद् भिन्नोऽभ्युपगम्यत इत्यर्थः, तभावोऽसन्नेवासौ, भावादन्यत्वात्, खरविषाणवदिति । एवं पटादयोऽपि प्रत्येकं वाच्याः । ततस्तेऽपि द्वितीयपक्षेऽसत्त्वप्रसङ्गाद् भावादनन्येऽभ्युपगन्तव्याः, इति सर्वमेव घट-पटादिकं वस्तु तन्मात्रं सत्तामात्रमेवेति ॥२२०८॥
ववहरणं ववहरए स तेण व वहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण ववहारो ॥२२१२॥ व्यवहरणं व्यवहारः, व्यवहरति स इति वा व्यवहारः, विशेषतोऽवह्रियते निराक्रियते सामान्यं तेनेति व्यवहारः, लोको व्यवहारपरो वा विशेषतो यस्मात् तेन व्यवहार इति। अयं च न यदुक्तसूक्तिकां प्रतिपद्यते ॥२२१२॥
उवलंभव्ववहाराभावाओ निव्विसेसभावाओ । तं नत्थि खपुप्फ पिव संति विसेसा सपच्चक्खं ॥२२१४॥ नास्ति सामान्यम्, उपलम्भव्यवहाराभावात्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यर्थः, तथा निर्विशेषभावात्, विशेषव्यतिरिक्तत्वात्, खपुष्पवत् । विशेषास्तु सन्ति, स्वप्रत्यक्षत्वात्, घटादिवदिति ॥२२१४॥
। भमराइपंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थो त्ति सो गज्झो ॥२२२०।। बहुतरउ त्ति य तं चिय गमेइ संते वि सेसए मुयए । संववहारपरतया ववहारो लोगमिच्छंतो ॥२२२१॥ वा अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति ‘व्यवहारनयः' इति प्रकृतम् । कोऽर्थः ? सत्स्वपि बहुषु वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन् मुञ्चति । कुतः? स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? लोकव्यवहारमिच्छन्। कया?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org