________________
तृतीयं परिशिष्टम् - टिप्पनानि
।।३।४७।। अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गा:- हेतवो नया:- तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते । ननु यद्यपरिमिताः परसमयाः कथं तन्निबन्धनभूतानां नयानां संख्यानियमः ' नैगम-संग्रह-व्यवहारर्जुसूत्र - शब्द- समभिरूढैवंभूता नयाः' [तत्त्वार्थसू० १।३३] इति श्रूयते ? न; स्थूलतस्तच्छ्रुतेः, अवान्तरभेदेन तु तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वात् ||३|४७||” इति अभयदेवसूरिविरचितटीकासहिते संमतितर्कप्रकरणे ।
" एताः पञ्च निर्युक्तिगाथाः क्रमेण व्याचिख्यासुर्भाष्यकारो नैगमनयशब्दार्थं तावदाह - गाई माणाइं सामन्नो-भय-विसेसनाणाइं । जं तेहिं मिणइ तो णेगमो णओ णेगमाणो त्ति ।। २१८६॥ न एकं नैकं प्रभूतानीत्यर्थः, नैकानि किन्तु प्रभूतानि यानि मानानि सामान्यो-भय-विशेषज्ञानानि। तत्र समानानां भावः सामान्यं सत्तालक्षणम्, उभयं सामान्यविशेषोभयरूपमपान्तरालसामान्यं वृक्षत्वगोत्व-गजत्वादिकम्, विशेषास्तु नित्यद्रव्यवृत्तयोऽन्त्यस्वरूपा व्यावृत्त्याकारबुद्धिहेतवः, तेषां सामान्योभय-विशेषाणां ग्राहकाणि ज्ञानानि सामान्यो - भय - विशेषज्ञानानि, तैर्यस्माद् मिनोति मिमीते वा, ततो नैगमः, अत एव नैकमानो नैकपरिच्छेदः किन्तु विचित्रपरिच्छेद इति ॥२१८६|| नैगमनयस्यैव व्युत्पत्त्यन्तरमाह- लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमोऽणेगपहो
गमो तेणं ।। २१८७।। वा इत्यथवा निगमा भण्यन्ते । के ? | लोकार्थनिबोधा: - अर्था जीवादयस्तेषु नितरामनेकप्रकारा बोधा निबोधा लोकस्यार्थनिबोधा लोकार्थनिबोधाः । तेष्वेवंविधेषु निगमेषु भवः कुशलो वाऽयमिति नैगमः । अथवा अन्यथा व्युत्पत्तिः - गम्यतेऽनेनेति गमः पन्था नैके गमाः पन्थानो यस्यासौ नैकगमः, वक्ष्यमाणनीत्या बहुविधाभ्युपगमपरत्वाद् नैकमार्गः, निरुक्तविधिना च ककारलोपाद् नैगम इति ॥ २१८७
जं सामन्नविसेसे परोप्परं वत्थुओ यसो भने | मन्नइ अच्वंतमओ मिच्छद्दिट्ठी कणादो व्व ॥२१९४।। दोहिं वि नएहिं नीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तण अन्नोन्ननिरवेक्खा ॥ २१९५ ॥ यद् यस्मात् सामान्य - विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति ; जैनसाधवस्तु परस्परं स्वाधाराच्च कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम्, कणादवदिति; तथाहिद्वाभ्यामपि द्रव्य-पर्यायास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य - पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ॥ २१९४-२१९५।।
९२
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org