SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्- टिप्पनानि चतुर्थ्यां पृथिव्यां विंशतियोजनसहस्राधिकः । पञ्चम्यामष्टादशयोजनसहस्राधिकः । षष्ठयां षोडशयोजनसहस्राधिकः । सप्तम्यामष्टयोजनसहस्राधिक इति । योजनं चेह प्रमाणाङ्गलनिष्पन्नं द्रष्टव्यम्। रत्नप्रभायां च पृथिव्यामशीतियोजनसहस्राधिको लक्षः एवम्- षोडशसहस्रप्रमाणं प्रथमं खरकाण्डम्, द्वितीयं पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्रमानम्, तृतीयमशीतियोजनसहस्रप्रमाणं जलबहुलं काण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथिवीस्वरूपाः, केवलं शर्कराप्रभा शर्कराबहुला वालुकाप्रभा वालुकाबहुलेत्येवं नामानुसारतो विशेषप्त्वरूपं परिभावनीयम् । उक्तं च- तत्थ सहस्सा सोलस, खरकंडं पंकबहुलकंडं तु । चुलसीइ सहस्साइं, असीइ जलबहुलकंडं तु ॥१॥ एवं असीइ लक्खो, खरकंडाईहि घम्मपुढवीए । सेसा पुढविसरूवा, पुढवीओ हुंति बाहल्ले ॥२॥ [ ] ॥२४१।। __ अधुना सर्वासु पृथिवीषु घनोदध्यादीनामुच्चस्त्वमानमाह- सव्वे वीस सहस्सा, बाहल्लेणं घणोदही नेया । सेसाणं तु असंखा, अहो अहो जाव सत्तमिया ॥२४२॥ व्या० सर्वासु पृथिवीष्वनन्तरमधो ये वर्तन्ते घनोदधयस्ते सर्वेऽपि मध्यभागे बाहल्येनोच्चस्त्वेन विज्ञेयाः प्रत्येक विंशतिर्योजनसहस्राणि, विंशतियोजनसहस्रप्रमाणं सर्वेषामपि घनोदधीनां मध्यभागे बाहल्यमिति भावः। शेषाणां तु घनवाततनुवाताकाशानामसङ्ख्येयानि योजनसहस्राण्युच्चस्त्वेन मध्यभागे विज्ञेयानि । नवरं घनवातासङ्ख्येयकादसङ्ख्येयगुणं तनुवातासङ्ख्येयकम्, तनुवातासङ्ख्येयकादसङ्ख्येयगुणमाकाशासङ्ख्येयकम् । एतच्च घनवातादीनामसङ्ख्येययोजनात्मकं बाहल्यपरिमाणमधोऽधस्तावदवगन्तव्यं यावत्सप्तमी तमस्तमाभिधाना पृथिवीति ॥२४२॥" - बृहत्संग्रहणी० मलय० । [पृ०६६७] “एक्किक्को य सयविहो सत्त नयसया हवंति एमेव । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥२२६४॥ एतेषां मूलजातिभेदतः सप्तानां नैगमादिनयानामेकैकः प्रभेदतः शतविधः शतभेदः । एवं च सर्वैरपि प्रभेदैः सप्त नयशतानि भवन्ति । अन्योऽपि चादेशः प्रकारस्तेन पञ्च नयशतानि भवन्ति । शब्दादिभिस्त्रिभिरपि नयैर्यदैक एव शब्दनयो विवक्ष्यते तदा पञ्चैव मूलनया भवन्ति, एकैकस्य च शतविधत्वात् पञ्चशतविधत्वं नयानाम् । अन्नो वि य त्ति अपिशब्दात् षट्, चत्वारि, द्वे वा शते नयानाम्। तत्र यदा सामान्यग्राहिणो नैगमस्य संग्रहे, विशेषग्राहिणस्तु व्यवहारेऽन्तर्भावो विवक्ष्यते तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात् षट् शतानि नयानाम् । यदा तु संग्रह-व्यवहार-ऋजुसूत्रलक्षणास्त्रयोऽर्थनया विवक्ष्यन्ते, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो मूलनया भवन्ति, प्रत्येकं च शतभेदत्वाच्चत्वारि नयशतानि । यदा तु नैगमादयश्चत्वारोऽप्येको द्रव्यास्तिकः, शब्दनयास्तु त्रयोऽप्येक एव पर्यायास्तिक इत्येवं द्वावेव नयौ विवक्ष्येते तदाऽनयोः प्रत्येकं शतभेदत्वाद् द्वे नयशते भवतः ॥ इति नियुक्तिगाथार्थः ॥२२६४॥” - विशेषाव० मलधारि०॥ [पृ०६६८] “अपरिशुद्धश्च नयवादः परसमय: स कियढ्दो भवति ? इत्याह- जावइया वयणवहा तावइया चेव होंति णयवाया । जावइया णयवाया तावइया चेव परसमया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy