________________
२
तृतीयं परिशिष्टम्- टिप्पनानि [पृ०६५९] "जहिँ नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । सो उ अगच्छो गच्छो, संजमकामीण मोत्तव्वो ॥४४६४॥ विस्मृते क्वचित् कर्त्तव्ये ‘भवतेदं न कृतम्' इत्येवंरूपा स्मारणा सारणा, अकर्त्तव्यनिषेधो वारणा, उपलक्षणत्वाद् अन्यथा कर्त्तव्यमनाभोगादिना अन्यथा कुर्वतः सम्यक् प्रवर्त्तना प्रेरणा, निवारितस्यापि पुनः पुनः प्रवर्त्तमानस्य खर-परुषोक्तिभिः शिक्षणं प्रतिनोदना । एताः सारणादयो यत्र गच्छे न सन्ति स गच्छो गच्छकार्याकरणादगच्छो मन्तव्यः, अत एव संयमकामिना संयमाभिमुखेन साधुना मोक्तव्योऽसौ, नाश्रयणीय इति भावः । गाथायां प्राकृतत्वाद् इकारस्य दीर्घत्वम् ॥४४६४॥" - बृहत्कल्पटीका ॥
[पृ०६६०] “यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषा:- सीसे जइ आमंते, पडिच्छगा तेण बाहिरं भावं । जइ इअरे तो सीसा, ते वि समत्तम्मि गच्छंति ।।१४५७।। तरुणा बाहिरभावं, न य पडिलेहोवहिं न किइकम्मं । मूलगपत्तसरिसगा, परिभूया वच्चिमो थेरा ॥१४५८॥ यद्याचार्यः शिष्यान् केवलानामन्त्रयति ‘कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिताः ?' इति, ततो मासलघु, आज्ञादयश्च दोषाः । प्रतीच्छकाश्च तेन कारणेन बाह्यं भावं गच्छेयुः- अहो ! स्वशिष्या एवामीषां सर्वकार्येषु प्रमाणं न वयमिति, अतो राग-द्वेषदूषितत्वात् को नामामीषामुपकण्ठे स्थास्यति ? इति । यदि इतरान् प्रतीच्छकानामन्त्रयते ततः शिष्या बहिर्भावं गच्छेयु:- प्रतीच्छका एव तावदमीषां प्रसादपात्रम्, अतः किमर्थं वयमेव वैयावृत्यादिप्रयासं कुर्मः ? इति । तेऽपि प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं गच्छन्ति । ततश्चाचार्य उभयैरपि प्रतीच्छक-शिष्यैः परित्यक्तः सन्नेकाकी सञ्जायेत ॥१४५७॥
__अथ वृद्धानामन्त्रयते ततस्तरुणा बहिर्भावं मन्यन्ते, न च नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न वा स्थविरादीनामुपधिं वहन्ति, न च कृतिकर्म-भक्तपानानयन-विश्रामणादिकं कुर्वते, 'वृद्धा एव सर्वमपि विधास्यन्ति, केऽत्र वयमस्थापितमहत्तराः ?' इति । अथैतद्दोषभयात् तरुणानेव पृच्छति ततः स्थविराश्चिन्तयेयु:- मौलकपत्रसदृशाः, मौलम् आद्यं यत् पर्णं परिपक्वप्रायं यदि वा मूलकः कन्दविशेषस्तस्य यत् पत्रं निस्सारं तत्सदृशा वयम्, अत एव च परिभूताः परिभवपदमायाता इत्यतो व्रजामो वयं गणान्तरमिति ॥१४५८॥" - बृहत्कल्पटीका ।
पृ०६६४] “साम्प्रतं धर्मादिपृथिवीनामुच्चस्त्वमाह- पढमा असीइसहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुज्जा ॥ ....॥२४१॥ व्या० अत्र प्राकृतत्वात् प्रथमाशब्दात् परत्र विभक्तेर्लोपः, प्रथमायां धर्माभिधायां पृथिव्यामुच्चस्त्वपरिमाणं परिभावयन्नशीतिसहस्राणि लक्षस्योपरि कुर्यात् । किमुक्तं भवति ? प्रथमाया रत्नप्रभायाः पृथिव्या अशीतियोजनसहस्राधिको योजनलक्षो बाहल्यमिति । एवं द्वितीयादिष्वपि पृथिवीषु बाहल्यपरिभावने द्वात्रिंशदादीनि योजनसहस्राणि लक्षस्योपरि कुर्यात् । अत्राप्ययं भावार्थ:- द्वितीयस्यां पृथिव्यां बाहल्यमानं द्वात्रिंशद्योजनसहस्राधिको लक्षः । तृतीयस्यां पृथिव्यामष्टाविंशतियोजनसहस्राधिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org