________________
तृतीयं परिशिष्टम्- टिप्पनानि व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः ॥२२२०-२२२१॥ उज्जं रुजु सुयं नाणमुजुसुयमस्स सोऽयमुजुसुओ। सुत्तयइ वा जमुखं वत्थु तेणुजुसुत्तो त्ति ॥२२२२॥ उजं इति ऋजु, श्रुतम् इति ज्ञानं बोधरूपम्, ततश्च ऋजु अवक्रं श्रुतमस्य सोऽयमृजुश्रुतः । वा अथवा, ऋजु अवकं वस्तु सूत्रयतीति ऋजुसूत्र इति ॥२२२२॥” - विशेषाव० मलधारि०॥
[पृ०६७०] “तम्हा निययं संपइकालीणं लिंग-वयणभिन्नं पि । नामाइभेयविहियं पडिवज्जइ वत्थुमुजुसुओ॥२२२६॥ तस्मादृजुसूत्रनयः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते । कथंभूतम् ? निजकमात्मीयम्, न परकीयम्, तदपि सांप्रतकालीनं वर्तमानम्, न त्वतीतानागतरूपम् । तच्च निजं वर्तमानं च वस्तु लिङ्ग-वचनभिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिलिङ्गम्, यथा तटः, तटी, तटमित्यादि । तथैकमप्येकवचन-बहुवचनवाच्यम्, यथा गुरुर्गुरवः, आपो जलम्, दारा: कलत्रमित्यादि। तथा, नामादिभेदविहितमप्यसौ वस्त्वभ्युपगच्छति, नाम- स्थापना-द्रव्य भावरूपांश्चतुरोऽपि निक्षेपानसौ मन्यत इत्यर्थः । तदिह लिंग-वयण इत्यादिनाऽभ्युपगमद्वयोपन्यासेन वक्ष्यमाणशब्दनयेन सहास्याभ्युपगमभेदो दर्शितः । शब्दनयो हि लिङ्गभेदाद् वचनभेदाच्च वस्तुनो भेदमेव प्रतिपत्स्यते, न पुनरेकत्वम्; तथा, नामादिनिक्षेपेऽप्येकमेव भावनिक्षेपं मंस्यते, न तु शेषनिक्षेपत्रयमिति । तदेवमुक्त ऋजुसूत्रनयः ॥२२२६॥
अथ शब्दनयमाह- सवणं सपइ स तेणं व सप्पए वत्थु जं तओ सद्दो। तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ व्व ॥२२२७॥ शप आक्रोशे [पा०धा० १०००], शपनमाह्वानमिति शब्दः, शपतीति वाऽऽह्वयतीति शब्दः, शप्यते वाऽऽहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्प्रधानत्वाद् नयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पञ्चम्यन्तः शब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यगमकत्वाद् मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दोऽपि हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः ॥२२२७||
तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसिययरं सो । इच्छइ भावघडं चिय जं न उ नामादए तिन्नि ॥२२२८॥ तदेव ऋजुसूत्रनयस्य मतमभीष्टं प्रत्युत्पन्नं वर्तमानं वस्त्विच्छत्यसौ शब्दनयः । कथंभूतं तदित्याह- विशेषिततरम् । कुत इदं ज्ञायते ? इत्याह- यद् यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ, न तु शेषान् नाम-स्थापनाद्रव्यरूपांस्त्रीन् घटानिति । शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दस्यार्थः, घट चेष्टायाम् [पा०धा०७६३] ‘घटत इति घटः' इति व्युत्पत्तेः । ततश्च य एव जलाहरणादिक्रियार्थमाचष्टे प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ, शब्दार्थोपपत्तेः, न तु नामादिघटान्, घटशब्दार्थानुपपत्तेः । अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुसूत्राद् विशेषिततरं वस्त्विच्छ त्यसौ, एकस्यैव भावघटस्यानेनाभ्युपगमादिति ॥२२२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org