SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ९०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचञ्चरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेव गणिनामधेयसाधोरुत्तरसाधकस्येव विद्या-क्रियाप्रधानस्य साहाय्येन समर्थितम् । 5 तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थं पूज्यपूजा__नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय, नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय, नम: प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै, नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे, नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । 10 एवं च निजवंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिन: स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्ठूचितपुरुषार्थसिद्धिमुपयुञ्जतां च योग्येभ्य इति ॥ किञ्च सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः । सर्वस्वपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥१॥ 15 वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्रचित् ॥२॥ क्षूणानि सम्भवन्तीह, केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः ॥३॥ शोध्यं चैतज्जिने भक्तैर्मामवद्मिर्दयापरैः । संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥४॥ कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनाग्रहै: । एतद् गमनिकामात्रमुपकारीति चर्चितम् ॥५॥ तथा सम्भाव्य सिद्धान्ताबाध्यं मध्यस्थया धिया । द्रोणाचार्यादिभिः प्राज्ञैरनेकैरादृतं यत: ॥६॥ १. सिद्धांता बोध्यं पामू०, सिद्धांतात् बोध्यं पासं० । सिद्धांताद्बोध्यं जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy