________________
९०५
[सू० ७८३]
दशममध्ययनं दशस्थानकम् । वेदना निर्जरा च वाच्या:, चेव त्ति समुच्चये, नवरं चयनादीनामयं विशेष:-चयनं नाम कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनम्, बन्धनं निकाचनम्, उदीरणा करणत उदये प्रवेशनम्, वेदनम् अनुभवनम्, निर्जरा जीवप्रदेशेभ्य परिशटनमिति ।
पुद्गलाधिकार एवेदमाह- दसेत्यादि सूत्रवृन्दं सुगमं च, नवरं दश प्रदेशा येषां ते 5 तथा, त एव दशप्रदेशिका दशाणुका: स्कन्धा: समुच्चया इति द्रव्यत: पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा आश्रिता दशप्रदेशावगाढा इति क्षेत्रत:, तथा दश समयान् स्थितिर्येषां ते तथेति कालतः, तथा दशगुण: एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां ते दशगुणकालकाः, एवमन्यैश्चतुर्भिर्वर्णाभ्यां गन्धाभ्यां पञ्चभी रसैरष्टाभि: स्पर्शः विशेषिता: पुद्गला: अनन्ता वाच्याः, अत एवाह– 10 एवमित्यादि, जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्तेत्यनेन भावत: पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चाऽनन्तशब्दोपादानेन वृद्ध्यादिशब्देनेवान्तमङ्गलमभिहितम्, अयं चाऽनन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति ।
तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारम्, शेषद्वाराणि तु सर्वाध्ययनेषु 15 प्रथमाध्ययनवदनुगमनीयानीति ॥
इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे दशस्थानकाख्यं दशममध्ययनं समाप्तम् । श्लोकाः १८१४।।
तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणम् । तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्येवोन्मुद्रणमिवानुयोग: प्रारभ्यत 20 इति तच्चन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्री वर्धमानाभिधानमुनिपतिपादोपसेविन: प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य १. चेव त्ति चेव समु जे१ ॥ २. च नास्ति जे१ ॥ ३. °मन्ते प्राथ: (यः?) पठित जे१ ।। ४. स्थानाख्यं
जे१ ॥ ५. समाप्तम् श्लोका: १८१४ । तत्स० जे१ । समाप्तमिति तत्स' खं० । समाप्तं तत्स पा० जे२ ॥ ६. (प्रणयिनः ?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.