________________
९०४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे परिसर्पन्ति सञ्चरन्तीत्युर:परिसास्ते च ते स्थलचराश्चेत्यादि तथैव ।
[सू० ७८३] जीवा णं दसठाणनिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणस्संति वा, तंजहा-पढमसमयएगिदियनिव्वत्तिए जाव
अपढमसमयपंचेंदियनिव्वत्तिए। एवं5 चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ।
दसपतेसिता खंधा अणंता पण्णत्ता, दसपतेसोगाढा पोग्गला अणंता पण्णता, दससमतट्टितीता पोग्गला अणंता पण्णत्ता, दसगुणकालगा पोग्गला अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं, दसगुणलुक्खा पोग्गला
अणंता पण्णत्ता ॥ 10 दसट्ठाणं समत्तं ॥छ। समत्तं च ठाणमिति ॥
[टी०] जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह- जीवा णमित्यादि, अथवा जाति-योनि-कुलादिविशेषा जीवानां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह– जीवा णमित्यादि,
जीवा जीवनधर्माणः, न सिद्धा इति भावः, णमिति वाक्यालङ्कारे, दशभिः स्थानैः 15 प्रथमसमयैकेन्द्रियत्वादिभि: पर्यायैः हेतुभिर्ये निर्वर्त्तिता बन्धयोग्यतया निष्पादितास्ते तथा, दशभि: स्थानैर्निर्वृत्तिर्वा येषां ते तथा, तान् पुद्गलान् कर्मवर्गणारूपान्, पापं घातिकर्म सर्वमेव वा कर्म तच्च तत् क्रियमाणत्वात् कर्म च पापकर्म, तद्भावस्तत्ता, तया पापकर्मतया चिणिंसु त्ति चितवन्तो गृहीतवन्त: चिन्वन्ति गृह्णन्ति चेष्यन्ति ग्रहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागम20 कृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथा-प्रथमः समयो
येषामेकेन्द्रियत्वस्य ते तथा, ते च ते एकेन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्त्तिता: कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा, तान्, एवं तद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निवर्त्तिता येते तथा, तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां
प्रत्येकं वाच्येति, एतदेवातिदेशेनाह-जावेत्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन 25 सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाह– एवं चिणेत्यादि, इह
चैवमक्षरघटना-चिण त्ति यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org