SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ [सू० ७८२] दशममध्ययनं दशस्थानकम् । योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणां द्वे, तथा लवणसमुद्रं त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च षट्, एतेषां च सर्वबाह्यं सुमेरो: पञ्चचत्वारिंशति योजनानां सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहस्रेषु अष्टासु च विंशत्यधिकेषु शतेषु भवतीति, एवं च कृत्तिकानक्षत्रं 5 सर्वबाह्यात् मण्डलाउ त्ति चन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात् षष्ठ इत्यर्थः, चारं चरति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दश चन्द्रमण्डले सर्वबाह्यात् षष्ठ इत्यर्थः, चारं चरतीति व्याख्यातमेवेति । विद्धिकराई ति एतन्नक्षत्रयुक्ते चन्द्रमसि सति ज्ञानस्य श्रुतज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति अविघ्नेनाधीयते श्रूयते व्याख्यायते धार्यते चेति, भवति च 10 कालविशेषस्तथाविधकार्येषु कारणम्, क्षयोपशमादिहेतुत्वात्तस्य, यदाह उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ [ विशेषाव० ५७५ ] इति । तद्यथा - मगसिर गाहा कण्ठ्या । [सू० ७८२] चउप्पयथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुल - 15. कोडिजोणिपमुहसतसहस्सा पण्णत्ता १। ९०३ उरपरिसप्पथलचरपंचेंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता २। [टी] द्वीप - समुद्राधिकारादेव द्वीपचारिजीवक्तव्यतां सूत्रद्वयेनाह - चउप्पयेत्यादि, चत्वारि पदानि पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति 20 चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्म्मधारयः, तेषां दशेति दशैव, जातौ पञ्चेन्द्रियजातौ यानि कुलकोटीनां जातिविशेषलक्षशतानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारकाणि शतसहस्राणि लक्षाणि तानि तथा, प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानम्, कुलानि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा वक्षसा 25 ९. चन्द्रस्य म जे१ पा० ॥ २. चरइ ति पा० । जे२ मध्ये पत्रं नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy