SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ९०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे षोडशविधम्, तत्र य: प्रथमो भागो रत्नकाण्डं नाम तद् दश योजनशतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह- एवमित्यादि, एवमिति पूर्वाभिलापेन सर्वाणि वाच्यानि, वेरुलिय त्ति वैडूर्यकाण्डम्, एवं 5 लोहिताक्षकाण्डं मसारगल्लकाण्डं हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं रूप्यं जातरूपं सुवर्णमेते अपि रत्ने एवेति । [सू० ७७९] सव्वे वि णं दीव-समुद्दा दस जोयणसताइं उव्वेहेणं पण्णत्ता। सव्वे वि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता २। सव्वे वि णं सलिलकुंडा दस जोयणाई उव्वेहेणं पण्णत्ता ३। 10 सीतासीतोतातो णं महाणतीतो मुहमूले दस दस जोयणाई उव्वेहेणं पण्णत्ताओ ४॥ टी०] रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह- सव्वेत्यादि सुगमम्, नवरमुद्वेध: उंडत्तं ति भणियं होइ, द्वीपानाम् उंडत्तणाभावे वि अधोदिशि सहस्रं यावद् द्वीपव्यपदेशः, जम्बूद्वीपे तु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अत्थि त्ति। 15 महाहदा: हिमवदादिषु पद्मादय: । सलिलकुंड त्ति सलिलानां गङ्गादिनदीनां कुण्डानि प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, मुहमूले त्ति समुद्रप्रवेशे। [सू० ७८०] कत्तियाणक्खत्ते सव्वबहिरातो मंडलातो दसमे मंडले चारं चरति १॥ अणुराधानक्खत्ते सव्वन्भंतरातो मंडलातो दसमे मंडले चारं चरति २॥ 20 [सू० ७८१] दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तंजहा मगसिरमद्दा पुस्सो, तिनि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तधा, दस विढिकराई णाणस्स ॥१७७॥ ३॥ [टी०] द्वीप-समुद्राधिकारात् तद्वतिनक्षत्रसूत्रत्रयमाह- कित्तियेत्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, चन्द्रस्य पञ्चदश, नक्षत्राणां त्वष्टौ, मण्डलं 25 च मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भम्, तत्र जम्बूद्वीपस्याशीत्यधिके १. सलिलकु खं० ॥ २. कत्ति पा० जे२ ॥ ३. °धिकयोज जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy