________________
९०१
[सू० ७७८]
दशममध्ययनं दशस्थानकम् । प्रहरणं परितो भ्रमयन् गर्जन्नास्फोटयन् देवांस्वासयन्नुत्पपात, सौधर्मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच, स च भयात् प्रतिनिवृत्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीर्घमागत्य वज्रमुपसंजहार, बभाण च- मुक्तोऽस्यहो भगवतः प्रसादात्, नास्ति मत्तस्ते भयमिति ८ । 5
तथाऽष्टाभिरधिकं शतमष्टशतम्, अष्टशतं च ते सिद्धाश्च निर्वृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९ । .
तथा असंयताः असंयमवन्त आरम्भ-परिग्रहप्रसक्ता अब्रह्मचारिणः, तेषु पूजा सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः , अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यम्, अत एवाह- दशाप्येतानि अनन्तेन कालेन अनन्तकालात् संवृत्तानि 10 अस्यामवसर्पिण्यामिति ।
[सू० ७७८] इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताइं बाहल्लेणं पन्नत्ते ।
इमीसे णं रयणप्पभाते पुढवीते वतिरे कंडे दस जोयणसताइं बाहल्लेणं पण्णत्ते ।
15 ___ एवं वेरुलिते १, लोहितक्खे २, मसारगल्ले ३, हंसगब्भे ४, पुलते ५, सोगंधिते ६, जोतिरसे ७, अंजणे ८, अंजणपुलते ९, रतते १०, जातरूवे ११, अंके १२, फलिहे १३, रिढे १४ । जहा रयणे तहा सोलसविधा वि भाणितव्वा ।
[टी०] अनन्तरसूत्रे चमरोत्पात उक्तः, स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्त- 20 व्यतामाह- इमीसे णमित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यत: उपरि मध्येऽधस्ताच्च यस्याः खरकाण्ड-पङ्कबहुलकाण्डजलबहुलकाण्डाभिधाना: क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागा: सन्ति इमीसे त्ति एतस्या: प्रत्यक्षासन्नाया: रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति शोभते या सा रत्नप्रभा तस्याः पृथिव्या भूमेर्यत्तत् खरकाण्डं तत् षोडशविधरत्नात्मकत्वात् 25
१. सर्वदा किल जे१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org