________________
९००
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरा-ऽमरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि
भूतपूर्वमितीदमाश्चर्यमिति ४ । 5 तथा कृष्णस्य नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्यम्, श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थेनापहृता, द्वारकावतीवास्तव्यश्च कृष्णो वासुदेवो नारदादुपलब्धतद्व्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिदेवः पञ्चभिः
पाण्डवैः सह द्वियोजनलक्षप्रमाणं जलधिमतिक्रम्य पद्मराजं रणविमर्दैन विजित्य 10 द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमन
वार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन पाञ्चजन्यः पूरितः, कृष्णेनापि तथैव, ततः परस्परशङ्खशब्दश्रवणमजायतेति
तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्र-सूर्ययोः 15 शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६।
तथा हरेः पुरुषविशेषस्य वंशः पुत्र-पौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत् कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः, कुलं ह्यनेकधा, अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः
केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तम्, तच्च पुण्यानुभावाद्राज्यं 20 प्राप्तम्, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स तथेति ७ ।
तथा चमरस्य असुरकुमारराजस्योत्पतनम् ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो
मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थमेकरात्रिकी 25 प्रतिमा प्रतिपन्नं सुंसुमारनगरोद्यानवर्त्तिनं सबहुमानं प्रणम्य ‘भगवंस्त्वत्पादपङ्कजवनं मे
शरणमरिपराजितस्य' इति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीर: परिघरत्नं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org