SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ [सू० ७७७] दशममध्ययनं दशस्थानकम् । ८९९ अस्संजतेसु पूआ, दस वि अणंतेण कालेणं ॥१७६॥ [टी०] महावीरस्य भगवतो नमन्निखिलनर-नाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपदपद्मस्यापि विविधऋद्धिमद्वरविनेयसहस्रपरिवृतस्यापि स्वप्रभावप्रशमितयोजनशतमध्यगतवैर-मारि-विड्वरदुर्भिक्षाद्युपद्रवस्याप्यनुत्तरपुण्यसम्भारस्यापि यद् गोशालकेन मनुष्यमात्रेणापि 5 चिरपरिचितेनापि शिष्यकल्पेनाप्युपसर्गः क्रियते तदाश्चर्यमिति । आश्चर्याधिकारादिदमाह- दसेत्यादि, आ विस्मयतश्चर्यन्ते अवगम्यन्त इत्याश्चर्याणि अद्भुतानि, इह च सकार: कोरस्करादित्वादिति । उवसग्गेत्यादि गाथाद्वयम्, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा देवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरा-ऽमर-तिर्यकृता अभूवन्, इदं च किल न कदाचिद् 10 भूतपूर्वम्, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनराऽमर-तिरश्चा सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १ । तथा गर्भस्य उदरसत्त्वस्य हरणम् उदरान्तरसङ्क्रामणं गर्भहरणम्, एतदपि तीर्थकरापेक्षयाऽभूतपूर्वं सद्भगवतो महावीरस्य जातम्, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात् त्रिशिलाभिधानाया राजपत्न्या उदरे सङ्क्रामणाद्, 15 एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति २। ___ तथा स्त्री योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थं द्वादशाङ्ग सङ्घो वा स्त्रीतीर्थम्, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य 20 भावस्याश्चर्यतेति ३ । ___ तथा अभव्या अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतो वर्द्धमानस्य जम्भिकग्रामनगराद बहिरुत्पन्नकेवलस्य तदनन्तरं मिलित१. ताकिनायकस्यापि जे१ खं० ॥ २. “कारस्करो वृक्षः ।६।१।१५६। कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति, न सूत्रेषु । पारस्करप्रभृतीनि च संज्ञायाम् ।६।१।१५७। एतानि ससुट्कानि निपात्यन्ते ।" - पा० सिद्धान्तकौमुदी ॥ ३. संक्रम' पा० । जे२मध्ये त्रुटितमत्र पत्रम् ।। ४. कुंभिक जे१ पा०। जे२मध्ये त्रुटितं पत्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy