________________
[सू० ७७६] दशममध्ययनं दशस्थानकम् ।
८९७ निसृष्टं महावीर इव नो क्रमते ईषत्, नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः, केवलम्
अंचिंअंचिं इति उत्पतनिपतां पार्श्वतः करोति, ततश्चा दक्षिणतः पार्थात् प्रदक्षिणा पार्श्वभ्रमणमादक्षिणप्रदक्षिणा, तां करोति, ततश्चोर्ध्वम् उपरि दिशि वेहासं ति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च से त्ति तत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते, प्रतिनिवृत्य च तदेव 5 शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतमनुदहत् निसर्गानन्तरमुपतापयत्, किंभूतं शरीरकम् ? सह तेजसा वर्तमानं तेजोलब्धिमत्, भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत् परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह- जहा वा यथैव गोशालकस्य भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्खपुत्रस्य, मङ्खश्च चित्रफलकप्रधानो भिक्षुकविशेषः, तवे तेए त्ति तपोजनितत्वात्तपः किं तत् ? 10 तेजस्तेजोलेश्येति। तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्- यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागम्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच- यथा अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मङ्खलिनाम्नो मङ्खस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षड् वर्षाणि यावच्छद्मस्थेन मया सार्द्धं 15 विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो न च सर्वज्ञः, इदं च भगवद्वचनमनुश्रुत्य बहुजनो नगर्याः त्रिक-चतुष्कादिषु परस्परस्य कथयामास- गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः, आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत्, तमवादीच्च- भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽर्थार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो 20 महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाड्वलवृक्षस्यान्तरद्राक्षुः, क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिविपुलममलजलमवापुः, तत् पयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीय-तृतीयशिखरे बिभिदुः, तयोः क्रमेण १. जेमू१ विना- अंचिं इति जेसं१ । अचिंअचिंइत्ति खं० । अंचिंअंचिइंति पा० जे२ ॥ २. मंखलपु
जेसं१ खं० । 'मंखिलंपु' जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org