________________
८९६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
[टी०] प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह- दसहीत्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्ध तेजसा तेजोलेश्यया वर्तमानमनार्यं भासं ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रमण इति गम्यते, तद्यथा- केइ त्ति कश्चिदनार्यकर्मकारी पापात्मा 5 तथारूपं तेजोलब्धिप्राप्तं श्रमणं तपोयुक्तं माहनं ‘मा हन, मा विनाशय' इत्येवंप्ररूपणाकारिणम्, वाशब्दौ विशेषणसमुच्चयार्थों, अत्याशातयेद् आत्यन्तिकीमाशातनां तस्य कुर्यात्, से य त्ति स च श्रमणोऽत्याशातित: उपसर्गितः परिकुपितः सर्वथा क्रुद्धः सन् तस्स त्ति उपसर्गकर्तुरुपरि तेजः तेजोलेश्यारूपं निसृजेत् क्षिपेत्, से त्ति स श्रमणः तमित्युपसर्गकारिणं परितापयति पीडयति, तं परिताप्य 10 तामेव त्ति तमेव तेजसा परितापितम्, दीर्घत्वं प्राकृतत्वात्, सह अपेर्गम्यमानत्वात्
तेजसापि, तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस इति, भासं कुज त्ति प्रसिद्धमित्येकम् । शेषाणि नवापि सुगमानि, नवरं से य अच्चासाइयं त्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयम्, उभावपि परिकुपितौ ते दुहओ त्ति तौ द्वौ मुनि-देवौ पडिन्न त्ति उपसर्गकारिणो 15 भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगताविति यावदिति
तृतीयम्, चतुर्थे श्रमणस्तेजोनिसर्गं कुर्यात्, पञ्चमे देवः, षष्ठे उभाविति, केवलमयं विशेषः- तत्रेति उपसर्गकारिणि स्फोटाः स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, ते च स्फोटका: भिद्यन्ते स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणं सह तेजसा
तेजोलेश्यावन्तमपि श्रमण-देवतेजसोर्बलवत्त्वात् तत्तेजसोपहननीयत्वाद् भस्म कुर्युः 20 निपातयेयुरिति । सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते
च, ततस्तत्र पुलाः पुलाकिका लघुतरस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुला: भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधु-देवकोपाश्रयाणि, दशमं तु वीतरागाश्रयम्, तत्र अच्चासाएमाणे त्ति उपसर्गं कुर्वन् गोशालकवत् तेजो निसृजेत्, से य तत्थ त्ति तच्च तेजस्तत्र श्रमणे १. 'ष्कम्भेन जे१ खं० ॥ २. पीडयति नास्ति जे१ पामू० ॥ ३. यए त्ति जे१ ॥ ४. तत्रैव जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org