SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ८९४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ७७३] दसविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा-मूले, कंदे जाव पुप्फे, फले, बीये । [टी०] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह- दसेत्यादि । तृणवद् वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्य च 5 बादरत्वेन, तेन सूक्ष्माणां न दशविधत्वमिति । मूलं जटा, कन्दः स्कन्धाधोवर्ती, यावत्करणात् खंधेत्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः स्थुडमिति यत् प्रतीतम्, त्वक् वल्कः, शाला शाखा, प्रवालम् अङ्कुरः, पत्रं पर्णम्, पुष्पं कुसुमम्, फलं प्रतीतम्, बीजं मिंजेति । [सू० ७७४] सव्वातो वि णं विजाहरसेढीओ दस दस जोयणाइं विक्खंभेणं 10 पण्णत्तातो १॥ सव्वातो वि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो। [टी०] दशस्थानकाधिकार एव इदमपरमाह- सव्वेत्यादि सूत्रद्वयम्, सर्वाः सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चस्त्वेन पञ्चाशच्च मूले विष्कम्भेण, तत्र दश योजनानि 15 धरणीतलादतिक्रम्य दशयोजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशनगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत् पञ्चपञ्चाशदिति । तथा विद्याधरश्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः आज्ञा, तया चरन्तीत्याभियोगिका 20 देवाः, शक्रादिसम्बन्धिनां लोकपालानां सोम-यम-वरुण-वैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । [सू० ७७५] गेवेजगविमाणा णं दस जोयणसयाई उटुंउच्चत्तेणं पण्णत्ता। [टी०] आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह- गेवेजेत्यादि कण्ठ्य म् । 25 [सू० ७७६] दसहिं ठाणेहिं सह तेतसा भासं कुजा, तंजहा केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते १. कम्भेन जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy