________________
[सू० ७७२]
दशममध्ययनं दशस्थानकम् ।
८९३
चउत्थी य बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं जड़ होइ निरुवद्दवो ॥ [तन्दुल० प्रकी० ३५] त्ति ४।
तथा प्रज्ञा बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद्दशापि प्रज्ञा, प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं चपंचमिं च दसं पत्तो आणुपुव्वीए जो नरो ।
5 इच्छियत्थं विचिंतेइ कुटुंबं चाभिकंखइ ॥ [तन्दुल० प्रकी० ३६] त्ति ५ ।।
तथा हापयति पुरुषमिन्द्रियेष्विति इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापनी प्राकृतत्वेन च हायणि त्ति, आह
छट्ठी उ हायणी नाम जं नरो दसमस्सिओ। विरजई य कामेसु इंदिएसु य हायइ ॥ [तन्दुल० प्रकी० ३७] त्ति ६ । तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा, प्रपञ्चयति वा संसयति आरोग्यादिति प्रपञ्चा, आह च
सत्तमिं च दसं पत्तो आणुपुव्वीए जो नरो । निच्छूहइ चिक्कणं खेलं खासई य अभिक्खणं ॥ [तन्दुल० प्रकी० ३८] ति ७ । तथा प्राग्भारमीषदवनतमुच्यते, तदेवंभूतं गात्रं यस्यां भवति सा प्रारभारा, यतः- 15 संकुचियवलीचम्मो संपत्तो अट्ठमिं दसं । नारीणमणभिप्पेओ जराए परिणामिओ ॥ [तन्दुल० प्रकी० ३९] त्ति ८ ।। तथा मोचनं मुक्, जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखम् आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्नवमी मुंमुही नाम जं नरो दसमस्सिओ।। जराघरे विणस्संते जीवो वसइ अकामओ ॥ [तन्दुल० प्रकी० ४०] त्ति । जीवे त्ति जीविते, जीवो त्ति वा नरलक्षणो जीव इत्यर्थः ९ । तथा शाययति स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम्
हीणभिन्नस्सरो दीणो विवरीओ विचित्तओ ।
दुब्बलो दुखिओ वसइ संपत्तो दस िदसं ॥ [तन्दुल० प्रकी० ४१] ति १०। १. कुटुंबं जे१ विना ॥ २. स्वार्थ खं० पा० ।। ३. °स्संतो जे२ । स्संति खं० ॥ ४. शायिनी जे२ ॥५. वसई खं० पा० ॥
00
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org