________________
5
पवंचा पब्भारा, मुंमुही सातणी तथा ॥१७४॥ संसारिपर्यायविशेषप्रतिपादनायैवाह - वासेत्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालः, तत्र यः पुरुषः सोऽप्युपचाराद् वर्षशतायुष्कः, मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित् कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात्, न चैवम्, तत उपचार एव युक्त इति । 10 दशेति संख्या, दसाउ त्ति वर्षदशकप्रमाणा: कालकृता अवस्था:, इह च वर्षशतायुर्ग्रहणं विशिष्टतरदशस्थानकानुरोधात्, विशिष्टतरत्वं च दशस्थानकस्यैवम्, वर्षदशकप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्म-धर्म्मिणोरभेदाद् बाला, स्वरूपं चास्या:
15
८९२
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
एवं द्वि-त्रि- चतुः-पञ्चेन्द्रिया वाच्याः, आह च- एवं जावेत्यादि, अनिंदिय अनिन्द्रियाः सिद्धाः अपर्याप्तका उपयोगतः केवलिनश्चेति ।
20
[सू० ७७२] वाससताउयस्स णं पुरिसस्स दस दसाओ पन्नत्ताओ, तंजाबाला किड्डा मंदा, बला पन्ना य हायणी ।
जायमेत्तस्स जंतुस्स जा सा पढमिया दसा ।
४
न तत्थ सुहदुक्खाई बहु जाणंति बालया । [ तन्दुल० प्रकी० ३२] इति १ ।
तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च
बितियं च दसं पत्तो, नाणाकीडाहिं कीडई ।
न तत्थ कामभोगेहिं, तिव्वा उप्पज्जई मती । [ तन्दुल० प्रकी० ३३] २ । तथा मन्दो विशिष्टबल - बुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा, उक्तं च
तइयं च दसं पत्तो, आणुपुव्वीए जो नरो ।
समत्थो भुंजिउं भोए, जइ से अस्थि घरे धुवा || [ तन्दुल० प्रकी० ३४] इति ३। भोगोपार्ज तुम इति भावना । तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा 25 बलयोगाद् बला, उक्तं च
१. 'वृत्त्या च वर्ष जे१ विना ॥ २. युष्कपुरु' जे१ ॥ ॥ ३. 'युष्कग्रह जे१ ॥ ४. बहुं खं० पा० जे२ ॥ ५. 'जए पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org