SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ [सू० ७७०-७७१] दशममध्ययनं दशस्थानकम् । ‘सोमणसे ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, आभियोगिकाश्चैते देवा विमानीभवन्तीति । [सू० ७७०] दसदसमिता णं भिक्खुपडिमा एगेणं रातिंदियसतेणं अद्धछट्टेहिं य भिक्खासतेहिं अधासुत्ता जाव आराधिता वि भवति । [टी०] एवंविधविमानयायिनश्चेन्द्रा: प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनीं 5 प्रतिमा स्वरूपत आह- दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमा प्रतिज्ञा भिक्षुप्रतिमा, एकेनेत्यादि, दशदशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, अहासुत्तमित्यादि, अहासुत्तं सूत्रानतिक्रमेण, यावत्करणात् अहाअत्थं अर्थस्य नियुक्त्यादेरनतिक्रमेण, अहातच्चं शब्दार्थानतिक्रमेण, 10 अहामग्गं क्षायोपशमिकभावानतिक्रमेण, अहाकप्पं तदाचारानतिक्रमेण, सम्यक् कायेन न मनोरथमात्रेण, फासिया विशुद्धपरिणामप्रतिपत्त्या, पालिया सीमां यावत्तत्परिणामाहान्या, शोधिता निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणत:, तीरिता तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, कीर्तिता नामत इदं चेदं च कर्तव्यमस्याम् तत् कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् भवति जायत इति । 15 [सू० ७७१] दसविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहापढमसमयएगेंदिता, अपढमसमयएगेदिता एवं जाव अपढमसमयपंचेंदिता १॥ दसविधा सव्वजीवा पन्नत्ता, तंजहा-पुढविकातिता जाव वणस्सतिकातिता, बेतिंदिता जाव पंचेंदिता, अणिंदिता । अधवा दसविधा सव्वजीवा पन्नत्ता, तंजहा-पढमसमयनेरतिता, 20 अपढमसमयनेरतिता जाव अपढमसमयदेवा, पढमसमयसिद्धा, अपढमसमयसिद्धा ३॥ [टी०] प्रतिमाभ्यास: संसारक्षयार्थं संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च दसेत्यादिना सूत्रत्रयेणाह, तच्च सुगमम्, नवरं प्रथम: समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्त्वितरे, 25 १. प्रतिमा: पा० ॥ २. भवंतीति पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy