________________
८९०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे __मणीनां मणिमयाभरणानां कारणत्वान्मण्यङ्गा: आभरणहेतवः, गेहं गृहम्, तद्वदाकारो येषां ते गेहाकाराः, अणियण त्ति वस्त्रदायिनः, उक्तं चमणियंगेसु य भूसणवराई ८ भवणाई भवणरुक्खेसु ९ ।
आइन्नेसु य धणियं वत्थाई बहुप्पगाराई १० ॥ [ ] ति । 5 कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह- जंबूदीवेत्यादि सूत्रद्वयं
कण्ठ्यम्, नवरं तीयाए त्ति अतीतायाम् उस्सप्पिणीए त्ति उत्सर्पिण्याम्, कुलकरणशीला: कुलकरा विशिष्टबुद्धयो लोकव्यवस्थाकारिण: पुरुषविशेषाः, आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी, सा च नोक्ता, तत्र हि सप्तैव कुलकरा: क्वचित् पञ्चदशापि दृश्यन्त इति । 10 [सू० ७६९] दस कप्पा इंदाहिट्ठिया पन्नत्ता, तंजहा-सोहम्मे जाव सहस्सारे, पाणते, अच्चुए।
एतेसु णं दससु कप्पेसु दस इंदा पन्नत्ता, तंजहा-सक्के, ईसाणे जाव अच्चुते।
एतेसि णं दसण्हं इंदाणं दस परिजाणिता विमाणा पन्नत्ता, तंजहा-पालते, 15 पुप्फते जाव विमले, वरे, सव्वतोभद्दे ।
[टी०] पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाहदसेत्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासात्, आनतारणयोस्तु तदनधिष्ठितत्वं तनिवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यम्,
यावत्करणात् 'ईसाणे २, सणंकुमारे ३, माहिंदे ४, बंभलोए ५, लंतगे ६, सुक्के ७' 20 त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैतेषु दशेन्द्रा भवन्तीति दर्शयितुमाहएएसु इत्यादि, शक्रः सौधर्मेन्द्रः, शेषा देवलोकसमाननामान:, शेषं सुगममिति ।
इन्द्राधिकारादेव तद्विमानान्याह- एते इत्यादि, परियानं देशान्तरगमनम्, तत् प्रयोजनं येषां तानि पारियानिकानि गमनप्रयोजनानीत्यर्थः, यानं शिबिकादि तदाकाराणि विमानानि देवाश्रया यानविमानानि, न तु शाश्वतानि, नगराकाराणीत्यर्थः, पुस्तकान्तरे 25 यानशब्दो न दृश्यते, पालए इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानि, यावत्करणात्
१. अणिय त्ति जे१ । अणियय त्ति पा० जे२ ॥ २. जाणविमाणा अटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org