________________
[सू० ७६२-७६३] दशममध्ययनं दशस्थानकम् ।
८८७ जातिस्थविरा: षष्टिवर्षप्रमाणजन्मपर्याया: ८, श्रुतस्थविरा: समवायाद्यङ्गधारिण: ९,, पर्यायस्थविरा विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १० ।
[सू० ७६२] दस पुत्ता पत्नत्ता, तंजहा-अत्तते, खेत्तते, दिन्नते, विनते, ओरसे, मोहरे, सोडीरे, संवुड्ढे, ओववातिते, धम्मंतेवासी ।
[टी०] स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह- दस पुत्तेत्यादि, 5 पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः, तत्र आत्मन: पितृशरीराज्जातः आत्मजः, यथा भरतस्यादित्ययशा: १, क्षेत्रं भार्या, तस्या जात: क्षेत्रजः, यथा पण्डो: पाण्डवाः, लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डो: धर्मादिभिर्जनितत्वादिति २, दिनए त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेग: श्रूयते, स च पुत्रवत् पुत्रः, एवं सर्वत्र ३, विण्णए त्ति 10 विनयित: शिक्षा ग्राहित: ४, उरसो त्ति उपगतो जातो रस: पुत्रस्नेहलक्षणो यस्मिन् पितृस्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा हृदये स्नेहाद्वर्त्तते य: स: औरस: ५, मुखर एव मौखरो मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भाव: ६, शौडीरो य: शौर्यवता शूर एव रणकरणेन वशीकृत: पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुत: श्रूयते ७, अथवाऽऽत्मज 15 एव गुणभेदाद्भिद्यते, तत्र विन्नए त्ति विज्ञक: पण्डितोऽभयकुमारवत्, उरसे त्ति उरसा वर्तत इति औरसो बलवान् बाहुबलीव, शौडीरः शूर: वासुदेववत्, गर्वितो वा शौडीरः शौड़े गर्वे (पा० धा० २९० ] इति वचनात्, संवुड्ढे त्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रक: ८, ओववाइय त्ति उपयाचिते देवताराधने भव: औपयाचितकः, अथवा अवपात: सेवा सा प्रयोजनमस्येत्यावपातिकः सेवक इति हृदयम् ९, तथा अन्ते समीपे 20 वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थ: १०।
[सू० ७६३] केवलिस्स णं दस अणुत्तरा पन्नत्ता, तंजहा-अणुत्तरे णाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते, अणुत्तरा खंती, अणुत्तरा मुत्ती, अणुत्तरे अजवे, अणुत्तरे मद्दवे, अणुत्तरे लाघवे । १. कवलयमालायां महेन्द्रसिंहस्य महती कथा वर्तते । प्राकृतकुवलयमालायां पृ.९ पं.१८ त आरभ्य, संस्कृते
कुवलयमालाकथासंक्षेपे च पृ.३, पं.३३ त आरभ्य द्रष्टव्या ॥ २. शौट्ट जे१ खं० । सौंड पा० । सौंडु जे२ । “शौट गर्वे" पा० धा० २९० । “शौड गर्वे"- है। धा० २३३।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org