________________
८८६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शब्दरूपे तौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोग: ६ । तथा भोगा गन्ध-रसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोग: ७ । तथा कीर्ति-श्रुतादिलाभो भूयादिति लाभाशंसाप्रयोग: ८। तथा पूजा पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोग: ९। सत्कारः प्रवरवस्त्रादिभि: पूजनम्, तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०। 5 [सू० ७६०] दसविधे धम्मे पन्नत्ते, तंजहा-गामधम्मे, नगरधम्मे, रट्ठधम्मे, पासंडधम्मे, कुलधम्मे, गणधम्मे, संघधम्मे, सुतधम्मे, चरित्तधम्मे, अत्थिकायधम्मे ।
[टी०] उक्तलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह-दसेत्यादि, ग्रामा जनपदाश्रयाः, तेषां तेषु वा धर्म: समाचारो व्यवस्थेति 10 ग्रामधर्मः, स च प्रतिग्राम भिन्न इति, अथवा ग्राम: इन्द्रियग्रामो रूढेः, तद्धर्मो विषयाभिलाष: १, नगरधर्मो नगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव २, राष्टधर्मो देशाचार: ३, पाषण्डधर्मः पाषण्डिनामाचार: ४, कुलधर्मः उग्रादिकुलाचारः, अथवा कुलं चन्द्रादिकमार्हतानां गच्छसमूहात्मकम्, तस्य धर्म:
सामाचारी ५, गणधर्मो मल्लादिगणव्यवस्था, जैनानां वा कुलसमुदायो गण: 15 कोटिकादिस्तद्धर्म: तत्सामाचारी ६, सङ्घधर्मो गोष्ठीसमाचार: आर्हतानां वा
गणसमुदायरूपश्चतुर्वर्णो वा सङ्घस्तद्धर्मः तत्समाचार: ७, श्रुतमेव आचारादिकं दुर्गतिप्रपतज्जीवधारणात् धर्मः श्रुतधर्म: ८, चयरिक्तीकरणाच्चरित्रम्, तदेव धर्मश्चरित्रधर्म: ९, अस्तय: प्रदेशाः, तेषां कायो राशिरस्तिकाय:, स एव धर्मो
गतिपर्याये जीव-पुद्गलयोर्धारणादित्यस्तिकायधर्म: १० । 20 सू० ७६१] दस थेरा पन्नत्ता, तंजहा-गामथेरा, नगरथेरा, रट्ठथेरा,
पसत्थारथेरा, कुलथेरा, गणथेरा, संघथेरा, जातिथेरा, सुतथेरा, परितागथेरा। __ [टी०] अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयतिदसेत्यादि, स्थापयन्ति दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविराः, तत्र ये
ग्राम-नगर-राष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेया: प्रभविष्णवस्ते तत्तत्स्थविरा 25 इति १-२-३, प्रशासति शिक्षयन्ति ये ते प्रशास्तारः धर्मोपदेशकास्ते च ते स्थिरीकरणात्
स्थविराश्चेति प्रशास्तृस्थविरा: ४, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भक्तुश्च निग्राहकास्ते तथोच्यन्ते ५-६-७,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org