________________
[सू० ७५९] दशममध्ययनं दशस्थानकम् ।
८८५ नियतपिण्डो यथा मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते, नीयमिति नित्यं सदा अग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेव यो गृह्यत इति। पार्श्वस्थस्य भावः पार्श्वस्थता, न साऽपार्श्वस्थता, तया ७ । तथा शोभनः पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च साधुः सुश्रमणः, तद्भावस्तत्ता, तया ८ । तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनम् आगम: प्रवचनं द्वादशाङ्गं 5 तदाधारो वा सङ्घः, तस्य वत्सलता हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता, तया ९ । तथा प्रवचनस्य द्वादशाङ्गस्योद्भावनं प्रभावनं प्रावचनिकत्वधर्मकथा-वादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनम्, तदेव प्रवचनोद्भावनता, तयेति १० ।
[सू० ७५९] दसविहे आससप्पओगे पन्नत्ते, तंजहा-इहलोगासंसप्पओगे, 10 परलोगासंसप्पओगे, दुहतो लोगासंसप्पओगे, जीवितासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारासंसप्पओगे ।
[टी०] एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह-दसेत्यादि, आशंसनमाशंसा इच्छा, तस्याः प्रयोगो व्यापारणं करणम्, 15 आशंसैव वा प्रयोगो व्यापार: आशंसाप्रयोग:, सूत्रे च प्राकृतत्वात् आससप्पओगे त्ति भणितम्, तत्र इह अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये वर्त्तते लोकः प्राणिवर्गः स इहलोकः, तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्रवर्त्यादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रह: कार्य: १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणादिन्द्र इन्द्रसामानिको 20 वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती अथवा इहलोके इहजन्मनि किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३ । एतत् त्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा चिरं मे जीवितं भवत्विति जीविताशंसाप्रयोग: ४ । तथा मरणं प्रत्याशंसा शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोग: ५ । तथा कामौ 25 १. यथा नास्ति जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org