________________
८८४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपि योजनीयमिति ।
दण्डकस्यादौ दशधा नारका उक्ताः, अथ तदाधारान् नारकादिस्थितिं च दशस्थानानुपाततो निरूपयन् चउत्थीयेत्यादिसूत्राष्टादशकमाह, सुगमं चैतदिति । 5 [सू० ७५८] दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नताते, जोगवाहियताते, खंतिखमणताते, जितिंदियताते, अमाइल्लताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छल्लयाते, पवयणउन्भावणताए ।
[टी०] अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह10 दसहीत्यादि, आगमिष्यद् आगामिभवान्तरभावि भद्रं कल्याणं सुदेवत्वलक्षणमनन्तरं
सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भाव आगमिष्यद्भद्रता, तस्यै आगमिष्यद्भद्रतायै, तदर्थमित्यर्थः, आगमिष्यद्भद्रतया वा कर्म शुभप्रकृतिरूपं प्रकुर्वते बध्नन्ति, तद्यथा- निदायते लूयते ज्ञानाद्याराधनालता
आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानम्, 15 अविद्यमानं तद्यस्य सोऽनिदानः, तद्भावस्तत्ता, तया हेतुभूतया, निरुत्सुकतयेत्यर्थः १।
दृष्टिसम्पन्नतया सम्यग्दृष्टितया २ । योगवाहितया श्रुतोपधानकारितया योगेन वा समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही, तद्भावस्तत्ता, तया ३। क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि
क्षमत इति, क्षान्तिक्षमणस्य भावस्तत्ता, तया ४ । जितेन्द्रियतया करणनिग्रहेण ५। 20 अमाइल्लयाए त्ति, माइल्लो मायावांस्तत्प्रतिषेधेनामायावान्, तद्भावस्तत्ता, तया ६ । पार्श्वे बहिर्ज्ञानादीनां देशत: सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च
सो पासत्थो दुविहो देसे सव्वे य होइ नायव्वो । सव्वम्मि नाण-दसण-चरणाणं जो उ पासत्थो ।
देसम्मि उ पासत्थो सेजायरभिहडनीयपिंडं च । 25 नीयं च अग्गपिंडं भुंजइ निक्कारणे चेव ॥ [ ] इत्यादि ।
१. तायां वा जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org