________________
दशममध्ययनं दशस्थानकम् ।
[सू० ७५७ ].
चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं णेरतिताणं दस सागरोवमाइं ठिती पण्णत्ता ३ ।
पंचमाते णं धूमप्पभाते पुढवीते जहन्त्रेणं नेरइयाणं दस सागरोवमाइं ठिती
पण्णत्ता ४ ।
असुरकुमाराणं जहन्नेणं दस वाससहस्साइं ठिती पण्णत्ता, एवं जाव थणियकुमाराणं १४ ।
८८३
Jain Education International
बादरवणस्सतिकातिताणं उक्कोसेणं दस वाससहस्साइं ठिती पन्नत्ता १५ । वाणमंतराणं देवाणं जहन्नेणं दस वाससहस्साइं ठिती पन्नत्ता १६ । बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता १७ । लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाइं ठिती पन्नत्ता १८ । 10 [टी०] यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याहदसविहेत्यादिसूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो वर्त्तमानः समयः तत्रोपपन्नका अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समय नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां द्वयादयः समया जातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा: अवस्थिता अनन्तरावगाढा:, अथवा प्रथमसमयावगाढा अनन्तरावगाढाः, एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान् अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टा वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्वं व्यवहितान् सत: पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारका: 20 इतरे त्वितरे, अयं तु द्रव्यकृतो भेद इति । न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तराः, ते च ते पर्याप्तकाश्चेति अनन्तरपर्याप्तकाः प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावः, तद्विपरीता अचरमा:, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । एवमित्यादि 25 १. भविष्यन्तीति ये जे१ खं० ॥
For Private & Personal Use Only
5
तथा 15
www.jainelibrary.org