________________
८८२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमत: क्षुल्लिकाविमानप्रविभक्तिर्महतीविमानप्रविभक्तिरिति, अङ्गस्य आचारादेचूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका । वग्गचूलिय त्ति इह वर्ग: अध्ययनादिसमूहः, यथा अन्तकृद्दशास्वष्टौ वर्गाः, 5 तस्य चूलिका वर्गचूलिका । विवाहचूलिय त्ति व्याख्या भगवती, तस्याश्चूलिका व्याख्याचूलिका । अरुणोपपात इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातः, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोद्धान्तलोचन:
प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया युत्या दिव्यया विभूत्या 10 दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनो
विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरत: स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्त: संवेगविशुद्ध्यमानाध्यवसान: शृण्वंस्तिष्ठति, समाप्ते च भणतिसुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृण्विति । ततोऽसाविहलोकनिष्पिपास: समतृण
मणि-मुक्ता-लेष्ट-काञ्चन: सिद्धिवधूनिर्भरानुगतचित्त: श्रमण: प्रतिभणति-न मे वरेणार्थ 15 इति । ततोऽसावरुणो देवोऽधिकतरजातसंवेग: प्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । [सू० ७५६] दस सागरोवमकोडोकोडीओ कालो ओसप्पिणीए । दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीए ।
[टी०] एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह20 दसेत्यादि सूत्रद्वयं सुगमम् ।।
[सू० ७५७] दसविधा नेरइया पत्नत्ता, तंजहा-अणंतरोववन्ना, परंपरोववन्ना, अणंतरोगाढा, परंपरोगाढा, अणंतराहारगा, परंपराहारगा, अणंतरपजत्ता, परंपरपज्जत्ता, चरिमा, अचरिमा । एवं निरंतरं जाव वेमाणिया ।
चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पन्नत्ता १ । 25 रयणप्पभाते पुढवीते जहन्नेणं णेरतिताणं दस वाससहस्साई ठिती पन्नत्ता
२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org