________________
[सू० ७५५]
दशममध्ययनं दशस्थानकम् । एकविंशतिर्भवन्ति, तदर्थमध्ययनम् एकविंशतिशबला इत्यभिधीयते २ । तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा आ सामस्त्येन शात्यन्ते अपध्वस्यन्ते यकाभिस्ता आशातना रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३ । अद्वेत्यादि, अष्टविधा गणिसम्पत् आचार-श्रुत-शरीर-वचनादिका आचार्यगुणद्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते 5 तदध्ययनमपि तथोच्यन इति ४ । दसेत्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५ । एक्कारेत्यादि, एकादशोपासकानां श्रावकाणां प्रतिमा: प्रतिपत्तिविशेषा: दर्शन-व्रत-सामायिकादिविषया: प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६ । बारसेत्यादि, द्वादश भिक्षूणां प्रतिमा: अभिग्रहा मासिकी- 10 द्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते ७ । पज्जो इत्यादि, पर्याया ऋतुबद्धिका: द्रव्य-क्षेत्र-काल-भावसम्बन्धिन उत्सृज्यन्ते उज्झ्यन्ते यस्यां सा निरुक्तविधिना पर्योसवना, अथवा परीति सर्वतः क्रोधादिभावेभ्य: उपशम्यते यस्यां सा पर्युपशमना, अथवा परि: सर्वथा एकक्षेत्रे जघन्यतः सप्ततिं दिनानि उत्कृष्टतः षण्भासान् वसनं निरुक्तादेव पर्युषणा, तस्याः कल्प आचारो मर्यादेत्यर्थः पर्योसवनाकल्प: पर्युपशमनाकल्प: पर्युषणाकल्पो 15 वेति, स च सक्कोसजोयणं विगइनवय [ मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८ । तीसमित्यादि, त्रिंशन्मोहनीयकर्मणो बन्धस्थानानि बन्धकारणानि वारिमझेऽवगाहित्ता, तसे पाणे विहिंसई[आव० सं० ]त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९ । आजाइट्ठाणमिति आजननमाजाति: सम्मूर्च्छन-गर्भोपपाततो जन्म तस्या: स्थानं संसारस्तत् सनिदानस्य 20 भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १० ।
प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते, दृश्यमानास्तु पञ्चाश्रव-पञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थ: प्रतीयमान एवेति, नवरं पसिणाई ति प्रश्नविद्या: यकाभि: क्षौमकादिषु देवतावतार: क्रियत इति, तत्र क्षौमं वस्त्रम्, अद्दागो आदर्शः, अङ्गुष्ठो हस्तावयवः, बाहवो भुजा इति ।
25 १. तृतीये परिशिष्टे द्रष्टव्यम् ॥ २. क्षौमकं पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org