________________
८७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते, परमनुत्तरोपपातिकाङ्गे नाधीत:, क्वचित् सिद्धश्च श्रूयत इति । __ तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञ:
श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्र: षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्5 के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्– श्रमणा वयं भिक्षार्थं च पर्यटाम:, तर्हि भदन्त ! आगच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गुल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, तत: श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्यूयं व वसथ ? भगवानुवाच- भद्र ! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने
वसन्ति तत्र वयं परिवसामः, भदन्त ! आगच्छाम्यहं भवद्भिः सार्धं भगवतो महावीरस्य 10 पादान् वन्दितुम् ?, गौतमोऽवादीत्- यथासुखं देवानांप्रिय ! ततो गौतमेन
सहागत्याऽतिमुक्तकः कुमारो भगवन्तं वन्दते स्म, स धर्मं श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्, यथा- संसारान्निविण्णोऽहं प्रव्रजामीत्यनुजानीतं युवाम्, तावूचतु:बाल ! त्वं किं जानासि ?, ततोऽतिमुक्तकोऽवादीत्- हे अम्बतात ! यदेवाहं जानामि
तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टां कथमेतत् ?, 15 सोऽब्रवीत्- अम्बतात ! जानाम्यहं यदुत जातेनावश्यं मर्त्तव्यम्, न जानामि तु कदा
वा कस्मिन् वा कथं वा कियच्चिराद्वा ?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते ? एतत् पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तप: कृत्वा च सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर
एवायं भविष्यतीति । दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः । 20 आचारदशानामध्ययनविभागमाह- आयारेत्यादि, असमाधि: ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि, यैरासेवितैरात्मपरोभयानामिह परत्रोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशतिः द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययन
मसमाधिस्थानानीति प्रथमम्, तथा एकविंशति: शबला: शबलं कर्बुरं द्रव्यत: 25 पटादि भावत: सातिचारं चारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च
करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org