SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [सू० ७५५] दशममध्ययनं दशस्थानकम् । सोऽन्य एव, अयं पुनरन्योऽनुत्तरेषूपपन्न इति । शालिभद्र इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सबहुमानं च साधवे पायसमदात्, राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोत्पन्नो देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्यभोजन - वसन - कुसुम - विलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहर्म्यतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां 5 पादप्रोञ्छनीकृताश्चेति श्रवणाज्जातकुतूहले दर्शनार्थं गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितो यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादशृङ्गात् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामी भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, 10 केवलमनुत्तरोपपातिकाङ्गे नाधीत इति । तेतली ति यत्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते स नायम्, तस्य सिद्धिगमनश्रवणात् । २ तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महावीरं दशार्णकूटनगनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राजसम्पदवलेपाद्भक्तितश्च चिन्तयामास, ततः प्रात: 15 सविशेषकृतस्नान-विलेपना - ऽऽभरणादिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदर्प सर्पच्चतुरङ्गसैन्यसमन्वितः पुष्यमाणवसमुद्धुष्यमाणागणितगुणगणः सामन्ता - ऽमात्य - मन्त्रि - राजदौवारिक- दूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवाऽमरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं 20 भव्यजननलिनवनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रनृपाभिप्रायं च तन्मतविनोदनोद्यतं कृताष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमापूरयन्तममरपतिमवलोक्य कुतोऽस्मादृशामीदृशी विभूतिः, कृतोऽनेन 25 निरवद्यो धर्म इति ततोऽहमपि तं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति १. पृष्ठारूढो जे१ खं० ॥ २. पुष्णमा पा० २ ॥ Jain Education International For Private & Personal Use Only ८७७ www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy