________________
८७६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ दशाप्यमी विंशतिवर्षपर्याया: सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति ।
अथान्तकृद्दशानामध्ययनविवरणमाह- अंतगडेत्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि, तानि चामूनि-नमीत्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्त5 कृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते
गोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १० ॥ [अन्तकृदशा] इति । ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यम्, जन्मान्तराणां तत्रानभिधीयमानत्वादिति । 10 अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह- अणुत्तरो इत्यादि, इह च त्रयो
वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्इसिदासेत्यादि, तत्र तु दृश्यते
धन्ने य सुनक्खत्ते, इसिदासे य आहिए ।
पेल्लए रामपुत्ते य, चंदिमा पुट्टिके इय ॥ 15 पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय ।
विहले दसमे वुत्ते, एमए दस आहिया ॥ [अनुत्तरोपपातिकदशा ] इति । तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यक-सुनक्षत्रकथानके एवम्- काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो
धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजित: षष्ठोपवासी 20 उज्झ्यमानलब्धाचाम्लपारणी विशिष्टतपसा क्षीणमांस-शोणितो राजगृहे
श्रेणिकमहाराजस्य चतुर्दशानां श्रमणसहस्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहृतस्तेन च राज्ञा सभक्तिकं वन्दित उपबंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उत्पन्न इति, एवं सुनक्षत्रोऽपीति । कार्तिक इति हस्तिनागपुरे श्रेष्ठी
इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगात् परिव्राजकस्य 25 मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे
प्रव्रज्यां प्रतिपन्नवान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते १. पुछिके खं० । पोट्टिके पा० जे२ ॥ २. पोट्ठिले जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org