________________
दशममध्ययनं दशस्थानकम् ।
८७५
[सू० ७५५]
गाहावइ चूलणीपिय त्ति चुलनीपितॄनामा गृहपतिर्वाराणसीनिवासी तथैव प्रतिबुद्ध: प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव, पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबद्धं चुलनीपितेत्युच्यते ३ । __ सुरादेवे त्ति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य 'षोडश रोगातङ्कान् 5 भवत: शरीरे समकमुपनयामि यदि धर्मं न त्यजसि' इति वचनमुपश्रुत्य चलितप्रतिज्ञ: पुनरालोचितप्रतिक्रान्तस्तथैव दिवं गत इतिवक्तव्यताभिधायकं सुरादेव इति ४ । __चुल्लसयए त्ति महाशतकापेक्षया लघु: शतक: चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपह्रियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचार: सन् दिवमगमद् यथा तथा यत्राभिधीयते तच्चुल्लशतक इति ५ ।
10 गाहावइ कुंडकोलिए त्ति कुण्डकोलिको गृहपति: काम्पिल्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्ग्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति ६।
सद्दालपुत्ते त्ति सद्दालपुत्र: पोलासपुरवासी कुम्भकारजातीयो गोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेनाऽक्षोभितान्त:करण: 15 प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिज्ञः पुनरपि कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबद्धं सद्दालपुत्र इति ७ । __ महासयए त्ति महाशतकनाम्नो गृहपते राजगृहनगरनिवासिनस्त्रयोदशभार्यापतेरुपासकप्रतिमाकृतरतेरुत्पन्नावधिसंज्ञिताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमते: संलेखनाजातदिविगतेर्वक्तव्यतानिबद्ध महाशतक इति ८ । 20
नंदिणीपिय त्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनान्नन्दिनीपितृनामकमिति ९ ।
लेईयापिय त्ति लेइकापितृनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्धं लेयिकापितॄनामकं दशममिति १० । १. इतः जे१ मध्ये पत्रारम्भः ॥ २. सालेइया खं० जे२ ॥ ३. लेइका पा० । शालियिका खं० । सालिइका'
जे२ ॥ ४. शालेयिका खं० । सालेयका जे२ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org