________________
८७४
गतवानित्यष्टमम् ८ ।
सहसुद्दाहे त्ति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः, सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, आमलए त्ति रश्रुतेर्लश्रुतिरित्यामरकः सामस्त्येन मारिः, एवमर्थप्रतिबद्धं नवमम्, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा 5 श्यामाभिधानदेव्यामनुरक्तः तद्वचनादेव एकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामेकोनपञ्चशतानि उपनिमन्त्र्य महति अगारे आवासं दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवान्, ततोऽसौ राजा मृत्वा षष्ठ्ट्यां च गत्वा रौंहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत् सा च पुष्पनन्दिना राज्ञा परिणीता, स च मातुर्भक्तिपरतया 10 तत्कृत्यादि कुर्वन्नासामास, तया च भोगविघ्नकारिणीति तन्मातुर्ज्वलल्लोहदण्डस्याऽपानक्षेपात् सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिर्विडम्ब्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति ९ ।
तथा कुमारे लेच्छई इ यत्ति कुमारा राज्यार्हाः, अथवा कुमाराः प्रथमवयस्थास्तान् लेच्छई इ यत्ति लिप्सूश्च वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ 15 भिन्नक्रमश्च, अयमत्र भावार्थ:- यदुत इन्द्रपुरे नगरे पृथिवी श्रीनामगणिकाऽभूत्, सा च बहून् राजकुमार-वणिक्पुत्रादीन् मन्त्र - चूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती, षष्ठ्यां च गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अञ्जुरित्यभिधाना जाता, सा च विजयराजपरिणीता योनिशूलेन कृच्छ्रं जीवित्वा नरकं गतेति, अत एव विपाकश्रुते अञ्जू इति दशममध्ययनमुच्यत इति १० ।
20
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
उपासकदशा विवृण्वन्नाह - दसेत्यादि, आनंदे सार्धः श्लोकः, आनंदे त्ति आनन्दो वाणिजग्रामाभिधाननगरवासी महर्द्धिको गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमाः कृत्वोत्पन्नावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्ययनम् आनन्द एवोच्यत इति १ ।
कामदेवे त्ति कामदेवश्चम्पानगरीवास्तव्यस्तथैव प्रतिबुद्धः परीक्षाकारिदेवकृतो25 पसर्गाविचलितप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थं द्वितीयं कामदेव इति २ । १. रोहीडके जे१ ॥ २. 'नक्षेपतः खं० ॥। ३. इत आरभ्य एकं पत्रं जे१ मध्ये नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org