SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [सू० ७५५ ] दशममध्ययनं दशस्थानकम् । कदर्थयित्वा निपातित इति, विपाकश्रुते चाऽभग्नसेन इतीदमध्ययनमुच्यते ३ | सगडे ति यावरे, शकटमिति चापरमध्ययनम्, तत्र शाखांजन्यां नगर्यां सुभद्राख्यसार्थवाह-भद्राभिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानः छागलिको मांसप्रिय 5 आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४। माहणे त्ति कौशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मण:, स चान्तः पुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितः, जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमं चकार तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे 10 षोडश परचक्रागमे अष्टशतमष्टशतम्, परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवं ब्राह्मणवक्तव्यतानिबद्धं पञ्चममिति ५ । ८७३ नन्दिसेणे यत्ति मथुरायां श्रीदामराजसुतो नन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षार - तैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण 15 परासुतां नीतो नरकमगमत्, स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव, अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतः नरकं गतवानित्येवमर्थं षष्ठमिति ६ । सोरिय त्ति 'शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्र:, स च मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, स च जन्मान्तरे नन्दिपुर- 20 नगरराजस्य मित्राभिधानस्य श्रीको नाम महानसिकोऽभूत् जीवघातरति : मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तमम्, इदं चाध्ययनं विपाकश्रुतेऽष्टममधीतम् ७ । उदुम्बरे त्ति पाटलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नाम्नाऽभूत्, स च षोडशभिर्रोगैरेकदाभिभूतो महाकष्टमनुभूय मृतः, स च जन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्वन्तरिनामा वैद्य आसीत् मांसप्रियो मांसोपदेष्टा चेति कृत्वा नरकं 25 १. सौरिक जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy