________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
तथा बन्धदशाः द्विगृद्धिदशाः दीर्घदशाः सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति ।
15
८७२
कर्म्मविपाकदशानामध्ययनविभागमाह- कम्मेत्यादि, मिगेत्यादि श्लोकः सार्द्धः, मृगा मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या, तस्याः पुत्रो मृगापुत्र:, तत्र 5 किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो भदन्त ! अन्योऽपीहास्ति जात्यन्धः ?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ - कोऽयं 10 जन्मान्तरेऽभवत् ?, भगवानुवाच - अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधानो लञ्चोपचारादिभिर्लोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगाessaङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो लोष्टाकारोऽव्यक्तेन्द्रियो दुर्गन्धिर्जातः, ततो मृत्वा नरकं गन्ता इत्यादि तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्रमुक्तमिति १ |
गोत्तासे त्ति गोस्त्रासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराट्या गावस्त्रासिताः, यौवने चायं गोमांसान्यनेकधा भक्षितवान्, त नारको जात:, ततो वणिजग्रामनगरे विजयसार्थवाह-भद्राभार्ययोरुज्झितकाभिधानः पुत्रो जात:, स च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्खादनेन च 20 चतुष्पथे विडम्ब्य व्यापादितो नरकं जगामेति गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २ |
अंडे ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वृत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं 25 देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्गं विनाश्य तिलशो मांसच्छेदन - रुधिर - मांसभोजनादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org