________________
दशममध्ययन दशस्थानकम् ।
[सू० ७५५]
८७१ दीहदसाणं दस अज्झयणा पन्नत्ता, तंजहा-चंदे, सूरे त, सुक्के त, सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे ति त, थेरे संभूतविजते, थेरे पम्ह, ऊसासनीसासे १०॥
संखेवितदसाणं दस अज्झयणा पन्नत्ता, तंजहा-खुड्डिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, वियाहचूलिया, 5 अरुणोववाते, वरुणोववाए, गरुलोववाते, वेलंधरोववाते, वेसमणोववाते ११॥
टी०] सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह– दस दसेत्याद्येकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या दसाओ त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, कर्मण: अशुभस्य विपाक: फलं कर्मविपाक: तत्प्रतिपादिका 10 दशाध्ययनात्मकत्वाद्दशा: कर्मविपाकदशा:, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्राविवरिष्यमाणत्वादिति ।
तथा साधून उपासते सेवन्त इत्युपासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धाः दशा दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति । तथा अन्तो 15 विनाश:, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकरादयः, तेषां दशा: अन्तकृद्दशा:, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम् । तथा उत्तरः प्रधान:, नास्योत्तरो विद्यत इत्यनुत्तर: उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमान- 20 पञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशा: नवममङ्गमिति। तथा आचरणमाचारो ज्ञानादिविषय: पञ्चधा, आचारप्रतिपादनपरा दशा दशाध्ययनात्मिका आचारदशा:, दशाश्रुतस्कन्ध इति या रूढाः । तथा प्रश्नाश्च पृच्छा: व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि, तत्प्रतिपादिका दशा: दशाध्ययनात्मिका: प्रश्नव्याकरणदशा: दशममङ्गमिति । 25 १. सुंके य क० ॥ २. दशाध्ययनात्मिका दशा: प्रश्न जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org