________________
८८०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे बन्धदशानामपि बन्धाद्यध्ययनादि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः ।
दीर्घदशा: स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्, तथाहि- राजगृहे महावीरस्य 5 चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतः, गौतमश्च भगवन्तं
तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच- श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च सेत्यस्यतीति । तथा सूरवक्तव्यताप्रतिबद्धं सूरम्, सूरवक्तव्यता च चन्द्रवत्, नवरं
सुप्रतिष्ठो नाम्ना बभूवेति । शुक्रो ग्रहस्तद्वक्तव्यता चैवम्- राजगृहे भगवन्तं वन्दित्वा 10 शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच- वाराणस्यां सोमिलनामा
ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत् ते भंते ! जवणिजं ?, तथा सरिसवया मासा कुलत्था य ते भोज्जा ? तथा एगे भवं दुवे भवं [पुप्फिया] इत्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्त: श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्मस्थानानि कारयित्वा
दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय 15 कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचन गर्तादौ पतिष्यामि तत्रैव
प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्ध्वा उत्तराभिमुख: प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयादिषु दिनेष्वश्वत्थ-वटोदुम्बराणामध उषित: भणितो देवेन, तत: 20 पञ्चमदिनेऽवादीदसौ कथं नु नाम मे दुष्प्रव्रजितम् ?, देवोऽवोचत् त्वं पार्श्वनाथस्य
भगवत: समीपेऽणुव्रतादिकं श्रावकधर्मं प्रतिपद्याधुना अन्यथा वर्त्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मं प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार, तत: श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्त: कालं
कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । 25 तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि- सा राजगृहे महावीरवन्दनाय
१. तु नास्ति जे१ खं० ॥ २. दृश्यतां तृतीये परिशिष्टे ॥ ३. श्रीदेवी तथाहि जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org