________________
८६८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दसेत्यादि, संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा वेदनीय-मोहनीयोदयाश्रया ज्ञान-दर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद् भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेत्याहारसंज्ञा, तथा 5 भयवेदनीयोदयाद् भयोद्धान्तस्य दृष्टि-वदनविकार-रोमाञ्चोझेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयाद् मैथुनाय स्त्र्य ङ्गालोकन-प्रसन्नवदन-संस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति
परिग्रहसंज्ञा,तथा क्रोधोदयात्तदावेशगर्भा प्ररूक्षमुख-नयन-दन्तच्छदचेष्टैव संज्ञायतेऽनयेति 10 क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयाल्लालसत्वान्वितात् सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽ
नयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा १०, ततश्चौघसंज्ञा 15 दर्शनोपयोग: लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति
सामान्यप्रवृत्तिरोघसंज्ञा लोकदृष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्या:, यावच्छब्दी व्याख्यातार्थो।
एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- नेरइयेत्यादि, एवं चेव त्ति 20 यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, एवं निरंतरमिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः ।
[सू० ७५३] नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, तंजहासीतं, उसिणं, खुधं, पिवासं, कंडं, परझं, भयं, सोगं, जरं, वाहिं ।
अनन्तरसूत्रे वैमानिका उक्ता:, ते च सुखवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका 25 या वेदना अनुभवन्ति ता दर्शयति- नेरइया इत्यादि कण्ठ्यम्, नवरं वेदनां पीडाम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org