________________
दशममध्ययनं दशस्थानकम् ।
८६७
[सू० ७५२] श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र
सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिटुं । एक्कारस अंगाइं पइन्नयं दिट्ठिवाओ य ॥ [उत्तरा० २८।२३] त्ति ।
तथा विस्तारो व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां 5 सर्वपर्यायाः सर्वैर्नय-प्रमाणैर्शाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च
दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्वो ॥ [उत्तरा० २८।२४] त्ति ।
तथा क्रिया अनुष्ठानम्, रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं 10 भवति- दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स क्रियारुचिरिति । उक्तं च
नाणेण दंसणेण य तवे चरित्ते य समितिगुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई होइ ॥ [उत्तरा० २८।२५] त्ति ।
तथा सक्षेप: सङ्ग्रहस्तेन रुचिरस्येति सक्षेपरुचि:, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सक्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति 15 स सक्षेपरुचिरिति भावः, आह च -
अणभिग्गहियकुदिट्ठी संखेवरुइ त्ति होइ नायव्वो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ॥ [उत्तरा० २८।२६] त्ति ।। तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्मं चारित्रधर्मां च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेय:, यदगादि
जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइ त्ति नायव्वो ॥ [उत्तरा० २८।२७] त्ति । [सू०७५२] दस सण्णाओ पन्नत्ताओ, तंजहा-आहारसण्णा जाव परिग्गहसण्णा ४, कोधसण्णा जाव लोभसण्णा ८, लोगसण्णा ९, ओहसण्णा १० । नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं।
[टी०] अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह१. 'दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु ।' इति उत्तराध्ययनसूत्रे ॥ २. 'स्तत्र रुचि' पा० जे२ ।।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org