________________
5
15
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
जातिस्मरण-प्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति
स निसर्गरुचिरिति भाव:, यदाह
८६६
एए चेव उ भावे उट्ठे जो परेण सद्दह ।
छउमत्थेण जिणेण व उवएसरुई मुणेयव्वो । [ उत्तरा० २८|१९] ति ।
10 तथाऽऽज्ञा सर्वज्ञवचनात्मिका, तया रुचिर्यस्य स तथा, यो हि प्रतनुराग-द्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भणितं च
रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ ।
25
जो जि
भावे चव्विहे द्रव्यादिभिः सद्दहाड़ सयमेव ।
एमेव नन्नह त्ति य निसग्गरुड़ त्ति नायव्वो । [ उत्तरा० २८|१८ ] त्ति । तथोपदेशो गुर्वादिना कथनम्, तेन रुचिर्यस्येत्युपदेशरुचिः, तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनर्थान् तीर्थकर - तच्छिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भाव:, यत आह
आणाए रोयंतो सो खलु आणारुई होइ ।। [ उत्तरा० २८ २०] ति ।
सुत्तबीयरुईमेव त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तेनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च
जो सुत्तमहिज्जंतो सुएण ओगाहई उ सम्मत्तं ।
अंगेण बाहिरेण व सो सुत्तरुइ त्ति नायव्वो । [ उत्तरा० २८|२१] ति ।
20 तथा बीजमिव बीजम्, यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचि:, यस्य होकेनापि जीवादिना पदेनावगतेनाऽनेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च
एगपगाई पयाइं जो पसरई उ सम्मत्ते ।
उदए व्व तिल्लबिंदू सो बीयरुइ त्ति नायव्वो । [ उत्तरा० २८।२२] त्ति ।
एवेति समुच्चये । तथा अभिगम - वित्थाररुइ त्ति, इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राऽभिगमो ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचि:, येन ह्याचारादिकं १. 'रागो दोसो...' वर्जिता ईमाः सर्वा अपि गाथा: प्रज्ञापनासूत्रे १।९२१ - २९ वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org