________________
[सू० ७५१] दशममध्ययनं दशस्थानकम् ।
८६५ चत्वारो वर्णाः प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, चउव्विहे देवे पन्नवेइ त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति जीवाजीवादीन् पदार्थान् बोधयति सम्यक्त्वं ग्राहयति शिष्यीकरोतीति यावत्, लोकेभ्यो वा तान् प्रकाशयति । अणंते इत्यादौ सूत्रे यावत्करणात् निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे त्ति 5 दृश्यमिति। सदेवेत्यादि, सह देवै: वैमानिक-ज्योतिष्कैर्मनुजैः नरैरसुरैश्च भवनपतिव्यन्तरैर्वर्त्तत इति सदेवमनुजासुरस्तत्र लोके त्रिलोकरूपे उराल त्ति प्रधाना:, कीर्तिः सर्वदिग्व्यापी साधुवादः, वर्ण एकदिव्यापी, शब्दः अर्द्धदिग्व्यापी, श्लोकः तत्तत्स्थान एव श्लाघा, एषां द्वन्द्वः, तत एते परिगुवंति परिगुप्यन्ति व्याकुला भवन्ति संततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते गुङ्धातोः शब्दार्थत्वात् संशब्द्यन्ते इत्यर्थः, पाठान्तरत: 10 परिभ्राम्यन्ति, कथमित्याह- इति खल्वित्यादि, इति: एवंप्रकारार्थः, खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनर-नाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, आघवेईत्यादि पूर्ववत् ।
15 [सू० ७५१] दसविधे सरागसम्मइंसणे पन्नत्ते, तंजहानिसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव ।
अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती ॥१६७॥ [टी०] स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाहदसविहेत्यादि, सरागस्य अनुपशान्ताक्षीणमोहस्य यत् सम्यग्दर्शनं तत्त्वार्थश्रद्धानं 20 तत्तथा, अथवा सरागं च तत् सम्यग्दर्शनं चेति विग्रहः सरागं सम्यग्दर्शनमस्येति वेति। निसग्ग गाहा, रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिः तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि १. परिगुव्वंति नास्ति जे१ खं० । 'गुप व्याकुलत्वे'- पा० धा० १२३५। है० धा० ३॥४९॥ २. सततं पा०
जे२ ॥ ३. “गुङ् अव्यक्ते शब्दे' -पा० धा० ९४९ । “गुंङ् शब्दे" - है० धा० ११५९१॥ ४. आघवेत्यादि खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org