________________
८६४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे २, चित्तविचित्तपक्खं ति चित्रेणेव चित्रकर्मणा विचित्रौ विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा ३, दामदुगं ति मालाद्वयम् ४, गोवग्गं ति गोरूपाणि ५, पउमसरं ति पद्मानि यत्रोत्पद्यन्ते सरसि तत् पद्मसर: सर्वत: सर्वासु दिक्षु समन्तात् विदिक्षु
च कुसुमानि पद्मलक्षणानि जातानि यत्र तत् कुसुमितम् ६, उम्मीवीचिसहस्सकलियं 5 ति ऊर्मय: कल्लोला:, तल्लक्षणा या वीचयस्ता ऊर्मिवीचयः, वीचिशब्दो हि
लोकेऽन्तरार्थोऽपि रूढः, अथवोर्मि-वीच्योर्विशेषो गुरुत्व-लघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, ऊर्मिवीचीनां सहस्रैः कलितो युक्तो य: स तथा, तम्, भुजाभ्यां बाहुभ्यामिति ७, तथा दिनकरम् ८, एकेन च, णमित्यलङ्कारे महं ति महता
छान्दसत्वात्, एगं च णं महं ति पाठे मानुषोत्तरस्यैते विशेषणे, हरिवेरुलियवन्नाभेणं 10 ति हरिः पिङ्गो वर्ण: वैर्यं मणिविशेषस्तस्य वर्णो नीलो वैडूर्यवर्णः, ततो द्वन्द्वः
तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभम्, तेन, अथवा हरिन्नीलं तच्च तद्वैडूर्यं चेति, शेषं तथैव, निजकेन आत्मीयेनाऽन्त्रेण उदरमध्यावयवविशेषेण, आवेढियं ति सकृदावेष्टितम्, परिवेढियं ति असकृदिति ९, एगं च णं महं ति आत्मनो विशेषणं सिंहासणवरगयं
ति सिंहासनानां मध्ये यद्वरं तत् सिंहासनवरम्, तत्र गतो व्यवस्थितो यस्तमिति १० 15 एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- जन्नमित्यादि सुगमम्, नवरं
मूलओ त्ति आदितः, सर्वथैवेत्यर्थः, उग्घाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि । ससमयपरसमइयं ति स्वसिद्धान्त-परसिद्धान्तौ यत्र स्त इत्यर्थः, गणिन: आचार्यस्य पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकम्, आघवेइ त्ति आख्यापयति 20 सामान्यविशेषरूपतः, प्रज्ञापयति सामान्यत:, प्ररूपयति प्रतिसूत्रमर्थकथनेन, दर्शयति
तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, निदंसेइ त्ति कथञ्चिदगृह्णत: परानुकम्पया निश्चयेन पुन: पुनर्दर्शयति निदर्शयति, उवदंसेइ त्ति सकलनययुक्तिभिरिति ३, चाउव्वण्णाइण्णे त्ति चत्वारो वर्णा: श्रमणादय: समाहृता इति चतुर्वर्णम्, तदेव चातुर्वर्ण्यम्, तेनाकीर्ण: आकुलश्चातुर्वर्ण्याकीर्णः, अथवा १. वीसह खं० ॥ २. वीशब्दो खं० ॥ ३. लोकोत्तरा खं० । लोकभाषायां वीचि = वच्चे = बीच में
इति अर्थो रूढः । सोऽत्र न ग्राह्यः, किन्तु ऊर्मिलक्षणोऽर्थो ग्राह्य इति भावः॥ ४. तेषामेव जे१ खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org