________________
[सू० ७५०] दशममध्ययनं दशस्थानकम् ।
८६३ वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताट्टालकमट्टहासं मुञ्चन् लोकमुत्रासयामास, तथा विनाश्यते स भगवान् देवेनेति भगवदालम्बनां जनस्याधृतिं जनितवान्, पुनर्हस्ति-पिशाच-नागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिर:-कर्ण-नासा-दन्त-नखा-ऽक्षि-पृष्ठिवेदना: प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणा: सपदि सम्पादितवान्, तथापि प्रचण्डपवनप्रहतसुरगिरिशिखर- 5 मिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्त: सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे- क्षमस्व क्षमाश्रमण ! इति, तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च- अरे! रे ! शूलपाणे! अप्रार्थितप्रार्थक ! हीनपुण्यचतुर्दशीक! श्री-ही-धृति-कीर्त्तिवर्जित ! दुरन्तप्रान्तलक्षण ! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीवितसममशेषसुरा-ऽसुर-नरनिकायनायकानाम्, एनं च 10 भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीत-नृत्तोपदर्शनपूर्वकमपुपूजत्, लोकश्च चिन्तयाञ्चकार देवार्यकं विनाश्येदानी देव: क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापित: प्रभातसमये मुहूर्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थः, अथवा छद्मस्थकाले 15 भवा अवस्था छाग्रस्थकालिकी तस्याम् अंतिमराइयंसि त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासौ रात्रिका चान्तिमरात्रिका तस्याम्, रात्रेरवसान इत्यर्थः, महान्तः प्रशस्ता: स्वप्ना निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते ते चेति महास्वप्नास्तान् । __ स्वप्ने स्वापक्रियायाम्, एगं च त्ति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः, 20 महाघोरम् अतिरौद्र रूपम् आकारं दीप्तं ज्वलितं दृप्तं वा दर्पवद्धारयतीति महाघोररूपदीप्तधरस्तदृप्तधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः, तालो वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधात् पिशाचो राक्षसस्तालपिशाचस्तम्, पराजितं निराकृतमात्मना १, एगं च त्ति अन्यं च पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्च परपुष्टः पुंस्कोकिलकः, स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषित: 25 १. यस्यां रात्रौ जे१ ॥ २. भगवदपराध' जे१ ॥ ३. रौद्ररूप पा० जे२ ॥ ४. पुस्सकोकिलगं जे१
खं० ॥ ५. पुंस्कोकिल: जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org