________________
5
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
१
सएययं चेव त्ति केतनं केत: चिह्नमङ्गुष्ठ - मुष्टि- ग्रन्थि - गृहादिकं स एव केतकः, सह केतकेन सकेतकं ग्रन्थ्यादिसहितमित्यर्थः, भणितं च
अंगुट्ठ- मुट्ठि- गंठी- घरसेउस्सास - थिबुग-जोइक्खे |
भणियं सकेयमेयं धीरेहिं अनंतणाणीहिं ॥ [ आव० नि० १५९२] ति ९ । अद्धाए त्ति अद्धायाः कालस्य, पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि चअद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं ।
पुरिमट्टे-पोरिसीहिं मुहुत्त-मास - ऽद्धमासेहिं ॥ [ आव० नि० १५९३] ति १० । पच्चक्खाणं दसविधं तु त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्द एवकारार्थः, ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न 10 पौनरुक्त्यमाशङ्कनीयमिति ।
[सू० ७४९ ] दसविधा सामायारी पण्णत्ता, तंजा
इच्छा मिच्छा तहक्कारो आवस्सिता य निसीहिता ।
८५८
15
9
आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । उवसंपता य काले, सामायारी दसविधा उ ॥१६६॥
[टी०] प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारीं निरूपयन्नाहदसेत्यादि, समाचरणं समाचारः, तद्भावः सामाचार्यम्, तदेव सामाचारी संव्यवहार इत्यर्थः, इच्छेत्यादि सार्द्धः श्लोकः इच्छत्ति एषणमिच्छा, करणं कार:, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया बलाभियोगमन्तरेण कार इच्छाकार:, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोग20 पूर्विकयेति भावार्थ:, अस्य च प्रयोगः स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते,
उक्तं च
जइ अब्भत्थेन परं कारणजाए करेज्ज व से कोइ ।
तत्थ उ इच्छाकारो न कप्पड़ बलाभिओगो उ || [ आव० नि० ६६८ ]त्ति । तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्या करणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, 25 तथा च संयमयोगे विदितजिनवचनसाराः साधवस्तत्क्रियावैतथ्यदर्शनाय मिथ्याकारं
१. संकेयं चेव जे१, २ ॥ २. पोरुसीहिं पा० जे२ ॥ ३. ओगो त्ति जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org