________________
८५७
[सू० ७४८]
दशममध्ययनं दशस्थानकम् । गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ सो दाइ तवोकम्मं पडिवजइ तं अइच्छिए काले । एवं पच्चक्खाणं अइक्वंतं होइ नायव्वं ॥ [आव० नि० १५८२-८३] ति २।
कोडीसहियं ति कोटीभ्याम् एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं 5 मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादे: करणमित्यर्थः, अभाणि चपट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ उ । जहियं समिति दुन्नि उ तं भन्नइ कोडिसहियं तु ॥ [आव० नि० १५८४] इति ३। नियंटियं ति नितरां यन्त्रितं प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च
मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥ चोद्दसपुव्वी जिणकप्पिएसु पढमम्मि चेव संघयणे ।
15 एयं वोच्छिन्नं खलु थेरा वि तया करेसी य ॥ [आव० नि० १५८५-८७] त्ति ४।
सागारं ति आक्रियन्त इत्याकारा: प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारम् ५ । अणागारं ति अविद्यमाना आकारा महत्तराकारादयो निश्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम्, तत्रापि अनाभोग-सहसाकारावाकारौ स्याताम्, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति ६ । परिमाणं सङ्ख्यानं दत्ति-कवल-गृह- 20 भिक्षादीनां कृतं यस्मिंस्तत् परिमाणकृतमिति, यदाह
दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥ [आव० नि० १५९०] ति ७/ निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमप्यशनाद्याहारजातं यस्मात् तन्निरवशेषम्, निरवशेष वा सर्वमशनादि तद्विषयत्वाद् निरवशेषमिति, अभिहितं च
सव्वं असणं सव्वं च पाणगं सव्वखज्ज-पेजविहिं । __ परिहरइ सव्वभावेण एवं भणियं निरवसेसं ॥ [आव० नि० १५९१] ति ८ । १. संहनिनामेवेति जे१ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org