________________
८५६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ता: जाताऽशीति: ८०, ततो वाञ्छयुतास्ते अष्टाशीति: ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हृते यल्लभ्यते तद् दशानां संकलितमिति ५५, इदं च पाटीगणितं श्रूयते 5 इति ६, तथा वर्ग: संख्यानम्, यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात: [त्रिशती] इति वचनात् ७, घणो य त्ति घन: सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहतिः [त्रिशती] इति वचनात् ८, वग्गवग्गो त्ति वर्गस्य वर्गो वर्गवर्ग:, स च सङ्ख्यानम्, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्ग: षोडशेति, अपिशब्द: समुच्चये ९, कप्पो यत्ति गाथाधिकम्,
तत्र कल्प: छेदः, क्रकचेन काष्ठस्य, तद्विषयं सङ्ख्यानं कल्प एव यत् पाट्यां 10 क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । [सू० ७४८] दसविधे पच्चक्खाणे पण्णत्ते, तंजहाअणागतमतिक्वंतं, कोडीसहितं नियंटितं चेव ।
सागारमणागारं, परिमाणकडं निरवसेसं । 15 सएयगं चेव अद्धाए, पच्चक्खाणं दसविहं तु ॥१६५॥
[टी०] दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाहदसविहेत्यादि, प्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः । अणागय गाहा सार्द्धा, अणागय त्ति अनागतकरणादनागतं पर्युषणादावाचार्यादि
वैयावृत्यकरणान्तरायसद्भावादारत एव तत्तप:करणमित्यर्थः, उक्तं च20 होही पज्जोसवणा मम य तया अंतराइयं होजा।
गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ सो दाइ तवोकम्मं पडिवजइ तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायव्वं ॥ [आव० नि० १५८०-८१] ति १ ।
अइक्वंतं ति एवमेवातीते पर्युषणादौ करणादतिक्रान्तम्, आह च25 पजोसवणाए तवं जो खलु न करेइ कारणज्जाए।
१. कप्पे य पा० ॥ २. तृतीये परिशिष्टे द्रष्टव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org