________________
८५५
[सू० ७४६-७४७]
दशममध्ययनं दशस्थानकम् । वक्रगतिरुक्ता, प्रथमैस्तु निर्विशेषणतया पारिशेष्यात् ऋजुगतिः, सिद्धिगइ त्ति सिद्धौ गमनम्, निर्विशेषणत्वाच्च अनेन सामान्या सिद्धिगतिरुक्ता, सिद्धाऽविग्गहगइ त्ति सिद्धावविग्रहेण अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषणापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति ।
[सू० ७४६] दस मुंडा पन्नत्ता, तंजहा-सोतिंदितमुंडे जाव फासिंदितमुंडे, 5 कोहमुंडे जाव लोभमुंडे, सिरमुंडे ।
[टी०] सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह- दसेत्यादि, मुण्डयति अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमम् । [सू० ७४७] दसविधे संखाणे पन्नत्ते, तंजहापरिकम्मं ववहारो, रज्जू रासी कलासवने य । जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि ॥१६४॥ कप्पो त । [टी०] मुण्डा दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, दसेत्यादि, परिकम्मं गाहा, परिकर्म संकलनाद्यनेकविधं गणितज्ञप्रसिद्धम्, तेन यत् सङ्ख्येयस्य सङ्ख्यानं परिगणनं तदपि परिकम्र्मेत्युच्यते, एवं सर्वत्रेति १, व्यवहारः श्रेणीव्यवहारादि: 15 पाटीगणितप्रसिद्धोऽनेकधा २, रज्जु त्ति, रज्ज्वा यत् सङ्ख्यानं तद्रज्जुरभिधीयते, तच्च क्षेत्रगणितम् ३, रासि त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशि:, स च पाट्यां राशिव्यवहार इति प्रसिद्धः ४, कलासवन्ने यत्ति कलानाम् अंशानां सवर्णनं सवर्णः सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् ५,जावंताव इ त्ति जावं ताव त्ति वा गुणकारो त्ति वा एगटुं] इति वचनाद् गुणकारस्तेन यत् सङ्ख्यानं तत्तथैवोच्यते, 20 तच्च प्रत्युत्पन्नमिति लोकरूढम्, अथवा यावत: कुतोऽपि तावत एव गुणकाराद् यादृच्छिकादित्यर्थः, यत्र विवक्षितं सङ्कलनादिकमानीयते तद् यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम्
गच्छो वाञ्छाभ्यस्तो वाञ्छयुतो गच्छसङ्गुण: कार्यः । द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः ॥ [ ]. १. सिद्धगइ जे१ खं० ॥ २. सिद्धिवि' पा० जे२ ॥ ३. सिद्धावि जे१ ॥ ४. संकलिताद्य पा० जे२।
25
विशेषेण जिज्ञासुभिः तृतीये परिशिष्टे द्रष्टव्यम् ॥५. संकलितादि पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org