SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 5 10 15 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् ॥ [ ] इति ५ । गारवेणं च त्ति गौरवेण गर्वेण यद्दीयते तद् गौरवदानमिति, उक्तं च– - नर्त्त- मुष्टिकेभ्यो दानं सम्बन्धि-बन्धु - मित्रेभ्यः । नट यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ॥ [ ] ६ । अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वा अधर्म्म एवेति, उक्तं चहिंसा - ऽनृत- चौर्योद्यत-परदार- परिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्म्माय ॥ [ ] इति ७ । धर्म्मकारणं यत्तद्धर्म्मदानं धर्म्म एव वा, उक्तं चसमतृणमणि- मुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद्दानं भवति धर्म्माय ॥ [ ] इति ८ । काही इ य त्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत् करिष्यतीति दानमुच्यते ९ । ८५४ तथा कृतं ममानेन तत् प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत् कृतमिति, उक्तं चशतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम् ॥ [ ] इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह- दसेत्यादि, निरयगति त्ति निर्गता अयात् शुभादिति निरया नारकाः, तेषां गतिर्गम्यमानत्वान्नरकः, तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषो वेति निरयगतिः, 20 निरयाणां नारकाणां विग्रहान् क्षेत्रविभागानतिक्रम्य गतिः गमनं निरयविग्रहगति: स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिकर्म्मापाद्या वेति, एवं तिर्यङ्-नरनाकिनामपीति, सिद्धिगइ त्ति सिध्यन्ति निष्ठितार्था भवन्ति यस्यां सा सिद्धिः, सा चासौ गम्यमानत्वाद् गतिश्चेति सिद्धिगतिः लोकाग्रलक्षणा, तथा सिद्धविग्गहगइ सिद्धस्य मुक्तस्य विंग्रहस्य आकाशविभागस्यातिक्रमणे गति: लोकान्तप्राप्ति: 25 सिद्धविग्रहगतिरिति विग्रहगतिर्वक्र गतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां १. अत्र तृतीये परिशिष्टे टिप्पनेषु द्रष्टव्यम् पृ० १३९ ॥ २. नास्तीति साहचर्या जे१ खं० ॥ Jain Education International For Private & Personal Use Only तथा www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy