________________
[सू० ७४५]
दशममध्ययनं दशस्थानकम् । देवराया वंदइ नमसइ [जम्बूद्वीप० २।३५] त्ति सूत्रे, तदनुयोगश्चायं वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयम्, गम्भीरत्वादस्येति। [सू० ७४५] दसविहे दाणे पण्णत्ते, तंजहाअणुकंपा संगहे चेव, भया कालुणिते ति त । लज्जाते गारवेणं च, अहम्मे उण सत्तमे । धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त ॥१६३॥
दसविधा गती पन्नत्ता, तंजहा-निरयगती, निरयविग्गहगती, तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, सिद्धिविग्गहगती ।
[टी०] वागनुयोगतस्त्वर्थानुयोग: प्रवर्त्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह– 10 दसेत्यादि, अणुकंपेत्यादि श्लोक: सार्द्धः, अनुकंप त्ति दानशब्दसम्बन्धादनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादै:
कृपणेऽनाथ-दरिद्रे व्यसनप्राप्ते च रोग-शोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥ [ ] १ ।
सङ्ग्रहणं सङ्ग्रहः व्यसनादौ सहायकरणम्, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च
अभ्युदये व्यसने वा यत् किञ्चिद्दीयते सहायार्थम् । तत् सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ [ ] इति २ ।
तथा भयात् यद्दानं तत् भयदानम्, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद् इति, 20 उक्तं च- राजा-ऽऽरक्ष-पुरोहित-मधुमुख-माचल्ल-दण्डपाशिषु च ।
यद्दीयते भयार्थात्तद् भयदानं बुधैर्जेयम् ॥ [ ] इति ३ । कालुणिए इ यत्ति कारुण्यं शोकः, तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादे: स जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य भोज्यस्य वा यद्दानं तत् कारुण्यदानम्, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४ । ___ तथा लजया हिया दानं यत्तल्लज्जादानमुच्यते, उक्तं च१. माचल्लः लुण्टाकः ॥
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org