________________
८५२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [ ] [इ]त्यत्र सेयशब्दो भविष्यदर्थः, ४, सायंकारे त्ति सायमिति निपात: सत्यार्थस्तस्माद् 'वर्णात् कारः' इत्यनेन छान्दसत्वात् कारप्रत्यय: करणं वा कारस्तत: सायंकार इति, तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्श्रेषु[ ]इति, एते च चकारादयो निपातास्तेषा
मनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, एगत्ते त्ति एकत्वमेकवचनं 5 तदनुयोगो यथा सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [तत्त्वार्थ० १११] इत्यत्रैकवचन सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थम्, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, पुहत्ते त्ति पृथक्त्वं भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा [प्रज्ञापना० १।५] इह सूत्रे
धर्मास्तिकायप्रदेशा इत्येतद् बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, संजूहे त्ति 10 सङ्गतं युक्तार्थं यूथं पदानां पदयोर्वा समूहः संयूथम्, समास इत्यर्थः, तदनुयोगो यथा सम्यग्दर्शनशुद्धम् [तत्त्वार्थका० १] सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति ८, संकोमियं ति सङ्क्रामितं विभक्तिवचनादि विभक्ति-वचनाद्यन्तरतया परिणामितं तदनुयोगो यथा साहूणं वंदणेणं नासति पावं असंकिया
भावा [ ] इह साधूनामित्येतस्या: षष्ठ्या: साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन 15 विपरिणामं कृत्वा अशङ्किता भावा भवन्तीत्येतत् पदं सम्बन्धनीयम्, तथा अच्छंदा जे
न भुंजति न से चाई त्ति वुच्चइ। [दशवै० २।२] इत्यत्र सूत्रे न स त्यागी इति उच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, भिन्नमिति क्रम-कालभेदादिभिर्भिन्नं विसदृशं तदनुयोगो यथा- तिविहं
तिविहेणमिति सङ्ग्रहमुक्त्वा पुन: मणेणमित्यादिना तिविहेणं ति विवृतमिति 20 क्रमभिन्नम्, क्रमेण हि तिविहमित्येतन्न करोमीत्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं
भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथा क्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थं क्रमभेदः, तथा हि न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत् प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि
मन:प्रभृतिभिर्न करोमि तैरेव न कारयामि नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे 25 प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्त्यादिषु ऋषभस्वामिनमाश्रित्य सक्के देविंदे
गुप्तसूरिविरचिता तत्त्वार्थकारिकाटीका द्रष्टव्या॥२. मिय त्ति पासं०॥३. विभक्तिवचनादिखं० विना नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org