________________
[सू० ७४४]
दशममध्ययनं दशस्थानकम् । भवन्तीति, इहादर्शपुस्तकेषु निव्वे हिअट्टमे त्ति दृष्टम्, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातम् ।
इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा- अहिंसा संजमो तवो [दशवै० १।१] इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनम्, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह वचनानुयोगं भेदत आह- 5 दसेत्यादि, शुद्धा अनपेक्षितवाक्यार्था या वाक् वचनं सूत्रमित्यर्थः तस्या अनुयोगो विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र चंकारे त्ति अत्रानुस्वारोऽलाक्षणिको यथा सुंके सणिंचरे [स्थानाङ्ग० ६१३] इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोग-समुच्चया-ऽन्वाचया-ऽवधारण-पादपूरणा-ऽधिकवचनादिषु 10 [ ]इति, तत्र इत्थीओ सयणाणि य [दशवै० २।२] इति, इह सूत्रे चकार: समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यत्वप्रतिपादनार्थः १, मंकारे त्ति माकारानुयोगो यथा समणं व माहणं वा [स्थानाङ्ग० १३३] इति सूत्रे माशब्दो निषेधे, अथवा जेणामेव समणे भगवं महावीरे तेणामेव [ ] इत्यत्र सूत्रे जेणामेव इह मकार आगमिक एव, येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, पिंकारे त्ति अकारलोपदर्शनेनानुस्वारागमेन च अपिशब्द उक्तः, 15 तदनुयोगो यथा अपि: सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेषु[ ]इति, तत्र एवं पि एगे आसासे [स्थानाङ्ग० ३१४] इत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, सेयंकारे त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति, तदनुयोगो यथा से भिक्खू वा [दशवै० ४।१०] इत्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु [ ]इत्यानन्तर्यार्थः, सेशब्द इति 20 क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः, अथवा सेयंकार इति श्रेय इत्येतस्य करणं श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा सेयं मे अहिजिउं अज्झयणं [दशवै० ४।१] इत्यत्र सूत्रे श्रेयः अतिशयेन प्रशस्यं कल्याणमित्यर्थः, अथवा सेयकाले अकम्मं चावि भवइ १. निच्चे जे१॥ २. स्थानाङ्गसूत्रे मुद्रिते मूलपाठे 'सुंके' इति पाठो यद्यपि न लभ्यते तथापि पाठान्तरे वर्तते, दृश्यतां सू० ७५५ टि०१॥ ३. °मकारा पा० जे२ ॥ ४. जेणामेव इति पाठो भगवती० ५।८।३ इत्यादिषु बहुषु आगमग्रन्थेषूपलभ्यते, किन्तु सम्प्रति तत्र ‘समणे भगवं महावीरे' इति नोपलभ्यते, यत्र समणे भगवं महावीरे इति पाठो दृश्यते यथा भगवतीसूत्रे [१।१।४(४)] तत्र जेणामेव इति न दृश्यते । ५. दृश्यतां प्रथमविभागे प्रथमपरिशिष्टे पृ०२ पं०२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org